भूतादिपादव्यपदेशोपपत्तेश्चैवम् ॥ २६ ॥
इतश्चैवमभ्युपगन्तव्यमस्ति पूर्वस्मिन्वाक्ये प्रकृतं ब्रह्मेति; यतो भूतादीन्पादान् व्यपदिशति श्रुतिः । भूतपृथिवीशरीरहृदयानि हि निर्दिश्याह — ‘सैषा चतुष्पदा षड्विधा गायत्री’ (छा. उ. ३ । १२ । ५) इति । न हि ब्रह्मानाश्रयणे केवलस्य च्छन्दसो भूतादयः पादा उपपद्यन्ते । अपि च ब्रह्मानाश्रयणे नेयमृक् सम्बध्येत — ‘तावानस्य महिमा’ इति । अनया हि ऋचा स्वरसेन ब्रह्मैवाभिधीयते, ‘पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि’ (छा. उ. ३ । १२ । ६) इति सर्वात्मत्वोपपत्तेः । पुरुषसूक्तेऽपीयमृक् ब्रह्मपरतयैव समाम्नायते । स्मृतिश्च ब्रह्मण एवंरूपतां दर्शयति — ‘विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत्’ (भ. गी. १० । ४२) इति । ‘यद्वै तद्ब्रह्म’ (छा. उ. ३ । १२ । ७) इति च निर्देश एवं सति मुख्यार्थ उपपद्यते । ‘ते वा एते पञ्च ब्रह्मपुरुषाः’ (छा. उ. ३ । १३ । ६) इति च हृदयसुषिषु ब्रह्मपुरुषश्रुतिर्ब्रह्मसम्बन्धितायां विवक्षितायां सम्भवति । तस्मादस्ति पूर्वस्मिन्वाक्ये ब्रह्म प्रकृतम् । तदेव ब्रह्म ज्योतिर्वाक्ये द्युसम्बन्धात्प्रत्यभिज्ञायमानं परामृश्यत इति स्थितम् ॥ २६ ॥