दिवि दिव इति विभक्तिभेदात्प्रकृतप्रत्यभिज्ञा नास्तीत्युक्तं नोपक्षणीयमित्याह
तत्परिहर्तव्यमिति ।
परिहारं प्रतीजानीते
अत्रेति ।
सूत्रे नञर्थं वदन्परिहारमाह
नायमिति ।
एवं सर्वत्र व्याख्येयम् । प्रधानप्रातिपदिकार्थद्युसम्बन्धेन प्रत्यभिज्ञाया विभक्त्यर्थभेदो न प्रतिबन्धकः, कथञ्चिदाधारस्यापि मर्यादात्वसम्भवात् । यथा वृक्षाग्रं स्वलग्नभागावच्छिन्नश्येनस्याधारः सन्नेव स्वालग्नभागावच्छिन्नस्य तस्यैव मर्यादा भवति, एवं दिवि सूर्ये हार्दाकाशे वा मुख्ये आधारे सब्रह्मदिवो मर्यदात्वं तदलग्नाकाशावच्छिन्नं ब्रह्म प्रति कल्पयित्वा दिवः परमित्युच्यत इत्यर्थः ।
यद्याकाशेन अनवच्छिन्नं ब्रह्म गृहीत्वा पञ्चम्या दिवो मर्यादात्वमेव मुख्यं तदा गङ्गायां घेष इतिवत्सप्तम्या सामीप्यलक्षणयाधारत्वं व्याख्येयमित्याह
अपर इति ।
सम्बद्धं प्रत्याधारत्वं मुख्यं पूर्वमुक्तं दिव्येव सदिति । असम्बद्धं प्रति मर्यादात्वं मुख्यमधुनोच्यते दिवः परमपीति भेदः । तस्माज्ज्योतिर्वाक्यमुपास्ये ब्रह्मणि समन्वितमिति सिद्धम् ॥ २७ ॥