ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
प्राणस्तथानुगमात् ॥ २८ ॥
अस्ति कौषीतकिब्राह्मणोपनिषदीन्द्रप्रतर्दनाख्यायिकाप्रतर्दनो वै दैवोदासिरिन्द्रस्य प्रियं धामोपजगाम युद्धेन पौरुषेण ’ (कौ. उ. ३ । १) इत्यारभ्याम्नातातस्यां श्रूयते होवाच प्राणोऽस्मि प्रज्ञात्मा तं मामायुरमृतमित्युपास्स्व’ (कौ. उ. ३ । २) इतितथोत्तरत्रापिअथ खलु प्राण एव प्रज्ञात्मेदं शरीरं परिगृह्योत्थापयति’ (कौ. उ. ३ । ३) इतितथा वाचं विजिज्ञासीत वक्तारं विद्यात्इतिअन्ते एष प्राण एव प्रज्ञात्मानन्दोऽजरोऽमृतः’ (कौ. उ. ३ । ९) इत्यादितत्र संशयःकिमिह प्राणशब्देन वायुमात्रमभिधीयते, उत देवतात्मा, उत जीवः, अथवा परं ब्रह्मेतिननुअत एव प्राणःइत्यत्र वर्णितं प्राणशब्दस्य ब्रह्मपरत्वम्इहापि ब्रह्मलिङ्गमस्ति — ‘आनन्दोऽजरोऽमृतःइत्यादिकथमिह पुनः संशयः सम्भवति ? — अनेकलिङ्गदर्शनादिति ब्रूमः केवलमिह ब्रह्मलिङ्गमेवोपलभ्यतेसन्ति हीतरलिङ्गान्यपिमामेव विजानीहि’ (कौ. उ. ३ । १) इतीन्द्रस्य वचनं देवतात्मलिङ्गम् । ‘इदं शरीरं परिगृह्योत्थापयतिइति प्राणलिङ्गम् । ‘ वाचं विजिज्ञासीत वक्तारं विद्यात्इत्यादि जीवलिङ्गम्अत उपपन्नः संशयःतत्र प्रसिद्धेर्वायुः प्राण इति प्राप्ते उच्यते

प्राणस्तथानुगमात् ।

दिवोदासस्यापत्यं दैवोदासिः प्रतर्दनो नाम राजा युद्धेन पुरुषकारेण च कारणेनेन्द्रस्य प्रेमास्पदं गृहं जगाम । तं ह इन्द्र उवाच, प्रतर्दन वरं ते ददानीति । स होवाच प्रतर्दनः, यं त्वं मर्त्याय हिततमं मन्यसे तं वरं त्वमेवालोच्य मह्यं देहीति । तत इन्द्र इदमाह 'प्राणोऽस्मि' इत्यादि । मुख्यं प्राणं निरसितुं प्रज्ञात्मत्वमुक्तम् ।

निर्विशेषचिन्मात्रं निरस्यति

तं मामिति ।

इदं प्राणस्येन्द्रदेवतात्वे लिङ्गम् ।

मुख्यप्राणत्वे लिङ्गमाह

अथेति ।

वागादीनां देहधारणशक्त्यभावनिश्चयानन्तरमित्यर्थः ।

प्राणस्य देहधारकत्वमुत्थापकत्वं च प्रसिद्धमिति वक्तुं खल्वित्युक्तम् । प्राणस्य जीवत्वे वक्तृत्वं लिङ्गमाह

न वाचमिति ।

आनन्दत्वादिकं ब्रह्मलिङ्गमाह

अन्ते चेति ।

अनेकेषु लिङ्गेषु दृश्यमानेषु बलाबलनिर्णयार्थमिदमधिकरणममित्यगतार्थमाह

अनेकलिङ्गेति ।

पूवर्त्र प्रकृतब्रह्मवाचकयच्छब्दबलाज्ज्योतिःश्रुतिःब्रह्मपरेत्युक्तम् , न तथेह प्राणश्रुतिभङ्गे किञ्चिद्बलमस्ति, मिथो विरुद्धानेकलिङ्गानामनिश्चायकत्वादिति प्रत्युदाहरणसङ्गत्या पूर्वपक्षयति

तत्रेति ।

पूर्वं प्रधानप्रातिपदिकार्थबलात्विभक्त्यर्थबाधवद्वाक्यार्थज्ञानं प्रति हेतुत्वेन प्रधानानेकपदार्थबलादेकवाक्यताभङ्ग इति दृष्टान्तसङ्गतिर्वास्तु । पूर्वपक्षे प्राणाद्यनेकोपास्तिः, सिद्धान्ते प्रत्यग्ब्रह्मधीरिति विवेकः ।