ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
प्राणस्तथानुगमात् ॥ २८ ॥
प्राणशब्दं ब्रह्म विज्ञेयम्कुतः ? तथानुगमात्तथाहि पौर्वापर्येण पर्यालोच्यमाने वाक्ये पदानां समन्वयो ब्रह्मप्रतिपादनपर उपलभ्यतेउपक्रमे तावत्वरं वृणीष्वइतीन्द्रेणोक्तः प्रतर्दनः परमं पुरुषार्थं वरमुपचिक्षेप — ‘त्वमेव वृणीष्व यं त्वं मनुष्याय हिततमं मन्यसेइतितस्मै हिततमत्वेनोपदिश्यमानः प्राणः कथं परमात्मा स्यात् ह्यन्यत्र परमात्मविज्ञानाद्धिततमप्राप्तिरस्ति, तमेव विदित्वाति मृत्युमेति नान्यः पन्था विद्यतेऽयनाय’ (श्वे. उ. ३ । ८) इत्यादिश्रुतिभ्यःतथा यो मां वेद वै तस्य केनच कर्मणा लोको मीयते स्तेयेन भ्रूणहत्यया’ (कौ. उ. ३ । १) इत्यादि ब्रह्मपरिग्रहे घटतेब्रह्मविज्ञानेन हि सर्वकर्मक्षयः प्रसिद्धः — ‘क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरेइत्याद्यासु श्रुतिषुप्रज्ञात्मत्वं ब्रह्मपक्ष एवोपपद्यते ह्यचेतनस्य वायोः प्रज्ञात्मत्वं सम्भवतितथोपसंहारेऽपिआनन्दोऽजरोऽमृतःइत्यानन्दत्वादीनि ब्रह्मणोऽन्यत्र सम्यक् सम्भवन्ति । ‘ साधुना कर्मणा भूयान्भवति नो एवासाधुना कर्मणा कनीयानेष ह्येव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषतेएष एवासाधु कर्म कारयति तं यमेभ्यो लोकेभ्योऽधो निनीषतेइति, एष लोकाधिपतिरेष लोकपाल एष लोकेशः’ (कौ. उ. ३ । ९) इति सर्वमेतत्परस्मिन्ब्रह्मण्याश्रीयमाणेऽनुगन्तुं शक्यते, मुख्ये प्राणेतस्मात्प्राणो ब्रह्म ॥ २८ ॥

तथा ब्रह्मपरत्वेन पदानामन्वयावगमादिति हेत्वर्थमाह

तथाहीति ।

हिततमत्वकर्मक्षयादिपदार्थानां सम्बन्धो ब्रह्मणि तात्पर्यनिश्चायक उपलभ्यत इत्युक्तं विवृणोति

उपक्रम इत्यादिना ।

यं मन्यसे तं वरं त्वमेव प्रयच्छेत्यर्थः ।

स यः कश्चिन्मां ब्रह्मरूपं वेदसाक्षादनुभवति, तस्य विदुषो लोको मोक्षो महतापि पातकेन न ह मीयते नैव हिंस्यते न प्रतिबध्यते ज्ञानाग्निना कर्मतूलराशेर्दग्धत्वादित्याह

स य इति ।

साध्वसाधुनी पुण्यपापे । ताभ्यामस्पृष्टत्वम् , तत्कारयितृत्वम् , निरङ्कुशैश्वर्यं च सर्वमेतदित्यर्थः ॥ २८ ॥