न वक्तुरात्मोपदेशादिति चेदध्यात्मसम्बन्धभूमा ह्यस्मिन् ॥ २९ ॥
यदुक्तं प्राणो ब्रह्मेति, तदाक्षिप्यते — न परं ब्रह्म प्राणशब्दम्; कस्मात् ? वक्तुरात्मोपदेशात् । वक्ता हीन्द्रो नाम कश्चिद्विग्रहवान्देवताविशेषः स्वमात्मानं प्रतर्दनायाचचक्षे — ‘मामेव विजानीहि’ इत्युपक्रम्य ‘प्राणोऽस्मि प्रज्ञात्मा’ इत्यहंकारवादेन । स एष वक्तुरात्मत्वेनोपदिश्यमानः प्राणः कथं ब्रह्म स्यात् ? न हि ब्रह्मणो वक्तृत्वं सम्भवति, ‘अवागमनाः’ (बृ. उ. ३ । ८ । ८) इत्यादिश्रुतिभ्यः । तथा विग्रहसम्बन्धिभिरेव ब्रह्मण्यसम्भवद्भिर्धर्मैरात्मानं तुष्टाव — ‘त्रिशीर्षाणं त्वाष्ट्रमहनमरुन्मुखान्यतीन्सालावृकेभ्यः प्रायच्छम्’ इत्येवमादिभिः । प्राणत्वं चेन्द्रस्य बलवत्त्वादुपपद्यते। ‘प्राणो वै बलम्’ इति हि विज्ञायते । बलस्य चेन्द्रो देवता प्रसिद्धा । ‘या च काचिद्बलकृतिः, इन्द्रकर्मैव तत्’ इति हि वदन्ति । प्रज्ञात्मत्वमप्यप्रतिहतज्ञानत्वाद्देवतात्मनः सम्भवति । अप्रतिहतज्ञाना देवता इति हि वदन्ति । निश्चिते चैवं देवतात्मोपदेशे हिततमत्वादिवचनानि यथासम्भवं तद्विषयाण्येव योजयितव्यानि । तस्माद्वक्तुरिन्द्रस्यात्मोपदेशात् न प्राणो ब्रह्मेत्याक्षिप्य प्रतिसमाधीयते — ‘अध्यात्मसम्बन्धभूमा ह्यस्मिन्’ इति । अध्यात्मसम्बन्धः प्रत्यगात्मसम्बन्धः, तस्य भूमा बाहुल्यम् , अस्मिन्नध्याये उपलभ्यते । ‘यावद्ध्यस्मिञ्शरीरे प्राणो वसति तावदायुः’ इति प्राणस्यैव प्रज्ञात्मनः प्रत्यग्भूतस्यायुष्प्रदानोपसंहारयोः स्वातन्त्र्यं दर्शयति, न देवताविशेषस्य पराचीनस्य । तथास्तित्वे च प्राणानां निःश्रेयसमित्यध्यात्ममेवेन्द्रियाश्रयं प्राणं दर्शयति । तथा ‘प्राण एव प्रज्ञात्मेदं शरीरं परिगृह्योत्थापयति’ (कौ. उ. ३ । ३) इति । ‘न वाचं विजिज्ञासीत वक्तारं विद्यात्’ इति चोपक्रम्य ‘तद्यथा रथस्यारेषु नेमिरर्पिता नाभावरा अर्पिता एवमेवैता भूतमात्राः प्रज्ञामात्रास्वर्पिताः प्रज्ञामात्राः प्राणेऽर्पिताः स एष प्राण एव प्रज्ञात्मानन्दोऽजरोऽमृतः’ इति विषयेन्द्रियव्यवहारारनाभिभूतं प्रत्यगात्मानमेवोपसंहरति । ‘स म आत्मेति विद्यात्’ इति चोपसंहारः प्रत्यगात्मपरिग्रहे साधुः, न पराचीनपरिग्रहे । ‘अयमात्मा ब्रह्म सर्वानुभूः’ (बृ. उ. २ । ५ । १९) इति च श्रुत्यन्तरम् । तस्मादध्यात्मसम्बन्धबाहुल्याद्ब्रह्मोपदेश एवायम् , न देवतात्मोपदेशः ॥ २९ ॥