ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
शास्त्रदृष्ट्या तूपदेशो वामदेववत् ॥ ३० ॥
इन्द्रो नाम देवतात्मा स्वमात्मानं परमात्मत्वेनअहमेव परं ब्रह्मइत्यार्षेण दर्शनेन यथाशास्त्रं पश्यन् उपदिशति स्म — ‘मामेव विजानीहिइतियथातद्धैतत्पश्यन्नृषिर्वामदेवः प्रतिपेदेऽहं मनुरभवꣳ सूर्यश्चइति, तद्वत्; तद्यो यो देवानां प्रत्यबुध्यत एव तदभवत्’ (बृ. उ. १ । ४ । १०) इति श्रुतेःयत्पुनरुक्तम् — ‘मामेव विजानीहिइत्युक्त्वा, विग्रहधर्मैरिन्द्रः आत्मानं तुष्टाव त्वाष्ट्रवधादिभिरिति, तत्परिहर्तव्यम्; अत्रोच्यते त्वाष्ट्रवधादीनां विज्ञेयेन्द्रस्तुत्यर्थत्वेनोपन्यासः — ‘यस्मादेवंकर्माहम् , तस्मान्मां विजानीहिइतिकथं तर्हि ? विज्ञानस्तुत्यर्थत्वेन; त्कारणं त्वाष्ट्रवधादीनि साहसान्युपन्यस्य परेण विज्ञानस्तुतिमनुसन्दधाति — ‘तस्य मे तत्र लोम मीयते यो मां वेद वै तस्य केन कर्मणा लोको मीयतेइत्यादिनाएतदुक्तं भवतियस्मादीदृशान्यपि क्रूराणि कर्माणि कृतवतो मम ब्रह्मभूतस्य लोमापि हिंस्यते, योऽन्योऽपि मां वेद, तस्य केनचिदपि कर्मणा लोको हिंस्यत इतिविज्ञेयं तु ब्रह्मैवप्राणोऽस्मि प्रज्ञात्माइति वक्ष्यमाणम्तस्माद्ब्रह्मवाक्यमेतत् ॥ ३० ॥

सूत्रमुत्तरम् । तद्व्याख्याति

इन्द्र इति ।

जन्मान्तरकृतश्रवणादिना अस्मिञ्जन्मनि स्वतःसिद्धं दर्शनमार्षम् । विज्ञेयेन्द्रस्तुत्यर्थ उपन्यासो न चेत्कथं तर्हि स इति पृच्छति

कथमिति ।

ब्रह्मज्ञानस्तुत्यर्थः स इत्याह

विज्ञानेति ।

नियामकं ब्रूते

यदिति ।

परेण ।

'तस्य मे' इत्यादिना वाक्येनेत्यन्वयः ।

स्तुतिमाह

एतदुक्तमिति ।

तस्माज्ज्ञानं श्रेष्ठमिति शेषः ।

स्तुतज्ञानविषय इन्द्र इत्यत आह

विज्ञेयं त्विति ॥ ३० ॥