ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
जीवमुख्यप्राणलिङ्गान्नेति चेन्नोपासात्रैविध्यादाश्रितत्वादिह तद्योगात् ॥ ३१ ॥
यद्यप्यध्यात्मसम्बन्धभूमदर्शनान्न पराचीनस्य देवतात्मन उपदेशः, तथापि ब्रह्मवाक्यं भवितुमर्हतिकुतः ? जीवलिङ्गात् मुख्यप्राणलिङ्गाच्चजीवस्य तावदस्मिन्वाक्ये विस्पष्टं लिङ्गमुपलभ्यते — ‘ वाचं विजिज्ञासीत वक्तारं विद्यात्इत्यादिअत्र हि वागादिभिः करणैर्व्यापृतस्य कार्यकरणाध्यक्षस्य जीवस्य विज्ञेयत्वमभिधीयतेतथा मुख्यप्राणलिङ्गमपि — ‘अथ खलु प्राण एव प्रज्ञात्मेदं शरीरं परिगृह्योत्थापयतिइतिशरीरधारणं मुख्यप्राणस्य धर्मः; प्राणसंवादे वागादीन्प्राणान्प्रकृत्यतान्वरिष्ठः प्राण उवाच मा मोहमापद्यथाहमेवैतत्पञ्चधात्मानं प्रविभज्यैतद्बाणमवष्टभ्य विधारयामि’ (प्र. उ. २ । ३) इति श्रवणात्ये तुइमं शरीरं परिगृह्यइति पठन्ति, तेषाम् इमं जीवमिन्द्रियग्रामं वा परिगृह्य शरीरमुत्थापयतीति व्याख्येयम्प्रज्ञात्मत्वमपि जीवे तावच्चेतनत्वादुपपन्नम्मुख्येऽपि प्राणे प्रज्ञासाधनप्राणान्तराश्रयत्वादुपपन्नमेव जीवमुख्यप्राणपरिग्रहे , प्राणप्रज्ञात्मनोः सहवृत्तित्वेनाभेदनिर्देशः, स्वरूपेण भेदनिर्देशः, इत्युभयथा निर्देश उपपद्यते — ‘यो वै प्राणः सा प्रज्ञा या वै प्रज्ञा प्राणः’ ‘सह ह्येतावस्मिञ्शरीरे वसतः सहोत्क्रामतःइतिब्रह्मपरिग्रहे तु किं कस्माद्भिद्येत ? तस्मादिह जीवमुख्यप्राणयोरन्यतर उभौ वा प्रतीयेयातां ब्रह्मेति चेत् , नैतदेवम्उपासात्रैविध्यात्एवं सति त्रिविधमुपासनं प्रसज्येतजीवोपासनं मुख्यप्राणोपासनं ब्रह्मोपासनं चेति चैतदेकस्मिन्वाक्येऽभ्युपगन्तुं युक्तम्उपक्रमोपसंहाराभ्यां हि वाक्यैकत्वमवगम्यते । ‘मामेव विजानीहिइत्युपक्रम्य, ‘प्राणोऽस्मि प्रज्ञात्मा तं मामायुरमृतमित्युपास्स्वइत्युक्त्वा, अन्ते एष प्राण एव प्रज्ञात्मानन्दोऽजरोऽमृतःइत्येकरूपावुपक्रमोपसंहारौ दृश्येतेतत्रार्थैकत्वं युक्तमाश्रयितुम् ब्रह्मलिङ्गन्यपरत्वेन परिणेतुं शक्यम्; दशानां भूतमात्राणां प्रज्ञामात्राणां ब्रह्मणोऽन्यत्र अर्पणानुपपत्तेःआश्रितत्वाच्च अन्यत्रापि ब्रह्मलिङ्गवशात्प्राणशब्दस्य ब्रह्मणि वृत्तेः, इहापि हिततमोपन्यासादिब्रह्मलिङ्गयोगात् , ब्रह्मोपदेश एवायमिति गम्यतेयत्तु मुख्यप्राणलिङ्गं दर्शितम् — ‘इदं शरीरं परिगृह्योत्थापयतिइति, तदसत्; प्राणव्यापारस्यापि परमात्मायत्तत्वात्परमात्मन्युपचरितुं शक्यत्वात् प्राणेन नापानेन मर्त्यो जीवति कश्चनइतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ’ (क. उ. २ । २ । ५) इति श्रुतेःयदपि वाचं विजिज्ञासीत वक्तारं विद्यात्इत्यादि जीवलिङ्गं दर्शितम् , तदपि ब्रह्मपक्षं निवारयति हि जीवो नामात्यन्तभिन्नो ब्रह्मणः, ‘तत्त्वमसि’ ‘अहं ब्रह्मास्मिइत्यादिश्रुतिभ्यःबुद्ध्याद्युपाधिकृतं तु विशेषमाश्रित्य ब्रह्मैव सन् जीवः कर्ता भोक्ता चेत्युच्यतेतस्योपाधिकृतविशेषपरित्यागेन स्वरूपं ब्रह्म दर्शयितुम् वाचं विजिज्ञासीत वक्तारं विद्यात्इत्यादिना प्रत्यगात्माभिमुखीकरणार्थ उपदेशो विरुध्यतेयद्वाचानभ्युदितं येन वागभ्युद्यतेतदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते’ (के. उ. १ । ५) इत्यादि श्रुत्यन्तरं वचनादिक्रियाव्यापृतस्यैवात्मनो ब्रह्मत्वं दर्शयतियत्पुनरेतदुक्तम् — ‘सह ह्येतावस्मिञ्शरीरे वसतः सहोत्क्रामतःइति प्राणप्रज्ञात्मनोर्भेददर्शनं ब्रह्मवादे नोपपद्यत इति, नैष दोषः; ज्ञानक्रियाशक्तिद्वयाश्रययोर्बुद्धिप्राणयोः प्रत्यगात्मोपाधिभूतयोर्भेदनिर्देशोपपत्तेःउपाधिद्वयोपहितस्य तु प्रत्यगात्मनः स्वरूपेणाभेद इत्यतःप्राण एव प्रज्ञात्माइत्येकीकरणमविरुद्धम्

देहोत्थापनं जीवलिङ्गं किं न स्यात् , तत्राह

शरीरधारणं चेति ।

सर्वे वागादयः प्राणा अहमहं श्रेष्ठ इति विवदमानाः प्रजापतिमुपजग्मुः । स च तानुवाच, यस्मिन्नुत्क्रान्ते शरीरं पापिष्ठतरं पतिष्यति स वः श्रेष्ठ इति तथाक्रमेण वागादिषूत्क्रान्तेष्वपि मूकादिभावेन शरीरं स्वस्थमस्थात् । मुख्यप्राणस्य तु उच्चिक्रमिषायां सर्वेषां व्याकुलत्वाप्तौ तान्वागादीन्वरिष्ठः प्राण उवाच, यूयं मोहं मापद्यथ यतोऽहमेवैतत्करोमि । किं तत् , पञ्चधा प्राणापानादिभावेनात्मानं विभज्य एतद्वाति गच्छतीति वानं तदेव बाणमस्थिरं शरीरमवष्टभ्याश्रित्य धारयामीत्यर्थः ।

द्विवचनसहवासोत्क्रान्तिश्रुतेश्च न ब्रह्म ग्राह्यमित्याह

जीवमुख्येति ।

अभेदनिर्देशमाह

यो वा इति ।

भेदमाह

सहेति ।

यदि जीवमुख्यप्राणयोर्लिङ्गादुपास्यत्वं तर्हि ब्रह्मणोऽपि लिङ्गानामुक्तत्वादुपासनं स्यात् । न चेष्टापत्तिः । उपक्रमादिन निश्चितैकवाक्यताभङ्गप्रसङ्गादित्याह

नैतदेवमित्यादिना ।

नच स्वतन्त्रपदार्थभेदाद्वाक्यभेदः किं न स्यादिति वाच्यम् , जीवमुख्यप्राणयोरुक्तलिङ्गानां ब्रह्मणिनेतुं शक्यतया स्वातन्त्र्यासिद्धेः, अफलपदार्थस्य फलवद्वाक्यार्थशेषत्वेन प्रधानवाक्यार्थानुसारेण तल्लिङ्गनयस्योचितत्वाच्च । नहि प्रधानवाक्यार्थब्रह्मलिङ्गमन्यथा नेतुं शक्यम् , न वा तदुचितमित्याह

नच ब्रह्मलिङ्गमिति ।

सूत्रशेषं व्याचष्टे

आश्रितत्वाच्चेति ।

अन्यत्र 'अत एव प्राणः' इत्यादौ वृत्तेराश्रितत्वादिहापि तस्य ब्रह्मलिङ्गस्य योगाद्ब्रह्मपर एव प्राणशब्द इत्यर्थः ।

प्राणादिलिङ्गानि सर्वात्मके ब्रह्मण्यनायासेन नेतुं शक्यनीत्याह

यत्त्वित्यादिना ।

यस्मिन्नेतौ प्रेर्यत्वेन स्थितौ तेनेतरेण ब्रह्मणा सर्वे प्राणादिव्यापारं कुर्वन्तीत्यर्थः । विशेषं परिच्छेदाभिमानमित्यर्थः ।

'वक्तारं विद्यात्' इति न वक्तुर्ज्ञेयत्वमुच्यते, तस्य लोकसिद्धत्वात् , किन्तु तस्य ब्रह्मत्वं बोध्यते । तद्बोधाभिमुख्याय लिङ्गादय इत्यत्र श्रुत्यन्तरमाह

यद्वाचेति ।

येन चैतन्येन वागभ्युद्यते स्वकार्याभिमुख्येन प्रेर्यते तदेव वागादिरगम्यं ब्रह्मेत्यर्थः ।

तत्त्वम्पदवाच्ययोः स्वरूपतो भेदस्ताभ्यामुपलक्ष्यात्मस्वरूपाभेदादेकत्वं निर्दिश्यत इत्याह

नैष दोष इति ।