ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
जीवमुख्यप्राणलिङ्गान्नेति चेन्नोपासात्रैविध्यादाश्रितत्वादिह तद्योगात् ॥ ३१ ॥
अथवानोपासात्रैविध्यादाश्रितत्वादिह तद्योगात्इत्यस्यायमन्योऽर्थः ब्रह्मवाक्येऽपि जीवमुख्यप्राणलिङ्गं विरुध्यतेकथम् ? उपासात्रैविध्यात्त्रिविधमिह ब्रह्मण उपासनं विवक्षितम्प्राणधर्मेण, प्रज्ञाधर्मेण, स्वधर्मेण तत्रआयुरमृतमित्युपास्स्वायुः प्राणःइतिइदं शरीरं परिगृह्योत्थापयतिइतितस्मादेतदेवोक्थमुपासीतइति प्राणधर्मः । ‘अथ यथास्यै प्रज्ञायै सर्वाणि भूतान्येकीभवन्ति तद्व्याख्यास्यामःइत्युपक्रम्यवागेवास्या एकमङ्गमदूदुहत्तस्यै नाम परस्तात्प्रतिविहिता भूतमात्रा प्रज्ञया वाचं समारुह्य वाचा सर्वाणि नामान्याप्नोतिइत्यादिः प्रज्ञाधर्मः । ‘ता वा एता दशैव भूतमात्रा अधिप्रज्ञं दश प्रज्ञामात्रा अधिभूतम्यद्धि भूतमात्रा स्युर्न प्रज्ञामात्राः स्युःयद्धि प्रज्ञामात्रा स्युर्न भूतमात्राः स्युः ह्यन्यतरतो रूपं किञ्चन सिध्येत्नो एतन्नानातद्यथा रथस्यारेषु नेमिरर्पिता नाभावरा अर्पिता एवमेवैता भूतमात्राः प्रज्ञामात्रास्वर्पिताः प्रज्ञामात्राः प्राणेऽर्पिताः एष प्राण एव प्रज्ञात्माइत्यादिर्ब्रह्मधर्मःतस्माद्ब्रह्मण एवैतदुपाधिद्वयधर्मेण स्वधर्मेण चैकमुपासनं त्रिविधं विवक्षितम्अन्यत्रापि मनोमयः प्राणशरीरः’ (छा. उ. ३ । १४ । २) इत्यादावुपाधिधर्मेण ब्रह्मण उपासनमाश्रितम्; इहापि तद्युज्यते वाक्यस्योपक्रमोपसंहाराभ्यामेकार्थत्वावगमात् प्राणप्रज्ञाब्रह्मलिङ्गावगमाच्चतस्माद्ब्रह्मवाक्यमेवैतदिति सिद्धम् ॥ ३१ ॥

स्वमतेन सूत्रं व्याख्याय वृत्तिकृन्मतेन व्याचष्टे

अथवेति ।

उपासनात्रित्वप्रसङ्गादिति पूर्वमुक्तम् । अत्र त्रिप्रकारकस्यैकब्रह्मविशेषेकस्यैकस्योपासनस्य विवक्षितत्वादित्यर्थः । अतो न वाक्यभेद इति भावः ।

देहचेष्टात्मकजीवनहेतुत्वं प्राणस्यायुष्ट्वं देहापेक्षया तस्य आमुक्तेरवस्थानादमृतत्वम् , उत्थापयतीत्युक्थत्वमिति प्राणधर्मः । जीवधर्मानाह

अथेति ।

बुद्धिप्राणयोः सहस्थित्युत्क्रान्त्युक्त्यनन्तरमित्यर्थः ।

अत्र प्रज्ञापदेन साभासा जीवाख्या बुद्धिरुच्यते । तस्याः सम्भन्धीनि दृश्यानि सर्वाणि भूतानि यथैकं भवन्त्यधिष्ठानचिदात्मना तथा व्याख्यास्याम इत्युपक्रम्योक्तम्

'वागेव' इत्यादि ।

चक्षुरेवास्या एकमङ्गमदूदुहदित्यादिपर्यायाणां सङ्क्षिप्तार्थमुच्यते । उत्पन्नाया असत्कल्पनायाः साभासबुद्धेर्नामप्रपञ्चविषयित्वमर्धं शरीरम् , अर्थात्मकरूपप्रपञ्चविषयित्वमर्धं शरीरमिति मिलित्वा विषयित्वाख्यं पूर्णं शरीरमिन्द्रियसाध्यम् । तत्र कर्मेन्द्रियेषु वागेवास्याः प्रज्ञाया एकमङ्गं देहार्धमदूदुहत्पूरयामास । वागिन्द्रियद्वारा नामप्रपञ्चविषयित्वं बुद्धिर्लभत इत्यर्थः । चतुर्थी षष्ठ्यर्था । तस्याः पुनर्नाम किल चक्षुरादिना प्रतिविहिता ज्ञापिताभूतमात्रा रूपाद्यर्थरूपा परस्तादपरार्धे कारणं भवति । ज्ञानकारणद्वरार्थप्रपञ्चविषयित्वं बुद्धिः प्राप्नोतीत्यर्थः ।

एवं बुद्धेः सर्वार्थद्रष्टृत्वमुपपाद्य तन्निष्ठचित्प्रतिबिम्बद्वारा साक्षिणि द्रष्टृत्वाध्यासमाह

प्रज्ञयेति ।

बुद्धिद्वारा चिदात्मा वाचमिन्द्रियंसमारुह्य तस्याः प्रेरको भूत्वा वाचा करणेन सर्वाणि नामानि वक्तव्यत्वेनाप्नोति, चक्षुषा सर्वाणि रूपाणि पश्यतीत्येवं द्रष्टा भवतीत्यर्थः ।

तथाच सर्वद्रष्टृत्वं चिदात्मनि द्रष्टृत्वाध्यासनिमित्तत्वं च बुद्धेर्धर्म इत्युक्तं भवति सर्वाधारत्वानन्दत्वादिः ब्रह्मधर्म इत्याह

ता वा इति ।

दशत्वं व्याख्यातम् ।

प्रज्ञा इन्द्रियजात्या अधिकृत्य ग्राह्या भूतमात्रा वर्तन्ते, प्रज्ञामात्रा इन्द्रियाणि ग्राह्यं भूतजातमधिकृत्य वर्तन्त इति ग्राह्य ग्राहकयोर्मिथः सापेक्षत्वमुक्तं साधयति

यदिति ।

तदेव स्फुटयति

न हीति ।

ग्राह्येण ग्राह्यस्वरूपं न सिध्यति किन्तु ग्राहकेण । एवं ग्राहकमपि ग्राह्यमनपेक्ष्य न सिध्यति । तस्मात्सापेक्षत्वादेतद्ग्राह्यग्राहकद्वयं वस्तुतो न भिन्नं किन्तु चिदात्मन्यरोपितमित्याह

नो इति ।

तद्यथेत्यादि कृतव्याख्यानम् ।

सूत्रार्थमुपसंहरति

तस्मादिति ।

अन्यधर्मेणान्यस्योपासनं कथमित्याशङ्क्याश्रितत्वादित्याह

अन्यत्रापीति ।

उपाधिर्जीवः । तत् अन्यधर्मेणोपासनम् । इयमसङ्गता व्याख्या । तथाहिन तावदारुण्याद्यनेकगुणविशिष्टप्राप्तक्रयणवदुपासात्रयविशिष्टस्य ब्रह्मणो विधिः सम्भवति, सिद्धस्य विध्यनर्हत्वात् । नापि ब्रह्मानुवादेनोपासात्रयविधिः, वाक्यभेदात् । नच नानाधर्मविशिष्टमेकमुपासनं विधीयत इति वाच्यम् , तादृशविधिवाक्यस्यात्राश्रवणात् । नच 'तं मामायुरमृतमित्युपाःस्व' इत्यत्र मामिति जीवेन, आयुरिति प्राणेन, अमृतमिति ब्रह्मणा स्वस्वधर्मवता विशिष्टोपासनाविधिरिति वाच्यम् , सर्वेषां धर्माणामश्रवणात् , ब्रह्माश्रुतेश्च । 'प्राणो वा अमृतम्' इति प्राणस्यैवामृतत्वश्रुतेः । अत उपासनाविधिलुब्धेन 'वक्तारं विद्यात्' 'एतदेवोक्थमुपासीत' 'स म आत्मेति विद्यात्' इति जीवप्राणब्रह्मोपासनविधयः, अन्ये गुणविधय इति स्वीकृत्यैकवाक्यत्वं त्याज्यम् , तच्चायुक्तम् , उपक्रमादिनैकवाक्यतानिर्णयादिति ।

तस्माज्ज्ञेयप्रत्यग्ब्रह्मपरमिदं वाक्यमित्युपसंहरति

तस्मादिति ॥ ३१ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीगोविन्दानन्दभगवत्पादकृतौ श्रीमच्छारीरकमीमांसाव्याख्यायां भाष्यरत्नप्रभायां प्रथमाध्यायस्य प्रथमः पादः ॥ १ ॥