श्रीरामं सिद्धमत्तारं गुहाशायिनमान्तरम् । अन्तर्यामिणमज्ञेयं वैश्वानरमहं भजे ॥ १ ॥
पूर्वपादेनोत्तरपादयोः सङ्गतिं वक्तुं वृत्तमनुवदति
प्रथम इति ।
जगत्कारणत्वोक्त्या व्यापित्वादिकमर्थात्सिद्धम् । तदुपजीव्योत्तरं पादद्वयं प्रवर्तत इति हेतुहेतुमद्वावः सङ्गतिः ।
कथं पादभेद इत्याशङ्क्य पादानां प्रमेयभेदमाह
अर्थान्तरेति ।
आकाशादिशब्दानां स्पष्टब्रह्मलिङ्गैर्ब्रह्मणि समन्वयो दर्शितः । अस्पष्टब्रह्मलिङ्गवाक्यसमन्वयः पादद्वये वक्ष्यते । प्रायेणोपास्यज्ञेयब्रह्मभेदात्पादयोरवान्तरभेद इति भावः ।