ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः द्वितीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
सर्वत्र प्रसिद्धोपदेशात् ॥ १ ॥
इदमाम्नायतेसर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीतअथ खलु क्रतुमयः पुरुषो यथाक्रतुरस्मिँल्लोके पुरुषो भवति तथेतः प्रेत्य भवति क्रतुं कुर्वीत’ (छा. उ. ३ । १४ । १), मनोमयः प्राणशरीरः’ (छा. उ. ३ । १४ । २) इत्यादितत्र संशयःकिमिह मनोमयत्वादिभिर्धर्मैः शारीर आत्मोपास्यत्वेनोपदिश्यते, आहोस्वित्परं ब्रह्मेतिकिं तावत्प्राप्तम् ? शारीर इतिकुतः ? तस्य हि कार्यकरणाधिपतेः प्रसिद्धो मनआदिभिः सम्बन्धः, परस्य ब्रह्मणः; अप्राणो ह्यमनाः शुभ्रः’ (मु. उ. २ । १ । २) इत्यादिश्रुतिभ्यःननुसर्वं खल्विदं ब्रह्मइति स्वशब्देनैव ब्रह्मोपात्तम्; कथमिह शारीर आत्मोपास्यत्वेनाशङ्क्यते ? नैष दोषःनेदं वाक्यं ब्रह्मोपासनाविधिपरम्किं तर्हि ? शमविधिपरम्; यत्कारणम्सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीतइत्याहएतदुक्तं भवतियस्मात्सर्वमिदं विकारजातं ब्रह्मैव, तज्जत्वात् तल्लत्वात् तदनत्वाच्च सर्वस्यैकात्मत्वे रागादयः सम्भवन्तितस्मात् शान्त उपासीतेति शमविधिपरत्वे सत्यनेन वाक्येन ब्रह्मोपासनं नियन्तुं शक्यतेउपासनं तु क्रतुं कुर्वीतइत्यनेन विधीयतेक्रतुः सङ्कल्पो ध्यानमित्यर्थःतस्य विषयत्वेन श्रूयते — ‘मनोमयः प्राणशरीरःइति जीवलिङ्गम्अतो ब्रूमःजीवविषयमेतदुपासनमिति । ‘सर्वकर्मा सर्वकामःइत्याद्यपि श्रूयमाणं पर्यायेण जीवविषयमुपपद्यते । ‘एष आत्मान्तर्हृदयेऽणीयान्व्रीहेर्वा यवाद्वाइति हृदयायतनत्वमणीयस्त्वं चाराग्रमात्रस्य जीवस्यावकल्पते, नापरिच्छिन्नस्य ब्रह्मणःननुज्यायान्पृथिव्याःइत्याद्यपि परिच्छिन्नेऽवकल्पत इतिअत्र ब्रूमः तावदणीयस्त्वं ज्यायस्त्वं चोभयमेकस्मिन्समाश्रयितुं शक्यम् , विरोधात्अन्यतराश्रयणे , प्रथमश्रुतत्वादणीयस्त्वं युक्तमाश्रयितुम्ज्यायस्त्वं तु ब्रह्मभावापेक्षया भविष्यतीतिनिश्चिते जीवविषयत्वे यदन्ते ब्रह्मसङ्कीर्तनम्एतद्ब्रह्म’ (छा. उ. ३ । १४ । ४) इति, तदपि प्रकृतपरामर्शार्थत्वाज्जीवविषयमेवतस्मान्मनोमयत्वादिभिर्धर्मैर्जीव उपास्य इत्येवं प्राप्ते ब्रूमः

छान्दोग्यवाक्यमुदाहरति

इदमिति ।

तस्माज्जायत इति तज्जम् , तस्मिंल्लीयत इति तल्लम् , तस्मिन्ननिति चेष्टत इति तदनम् , तज्जं च तल्लं च तदनं चेति तज्जलान् । कर्मधारयेऽस्मिन् शाकपार्थिवन्यायेन मध्यमपदस्य तच्छब्दस्य लोपः । तज्जलानमिति वाच्ये छान्दसोऽवयवलोपः । इतिशब्दो हेतौ । सर्वमिदं जगद्ब्रह्मैव, तद्विवर्तत्वादित्यर्थः ।

ब्रह्मणि मित्रामित्रभेदाभावाच्छान्तो रागादिरहितो भवेदिति गुणविधिः । सक्रतुमुपासनं कुर्वीतेति विहितोपासनस्य 'उपासीत' इत्यनुवादात्फलमाह

अथेति ।

क्रतुमयः सङ्कल्पविकार इत्यर्थः ।

पुरुषस्य ध्यानविकारत्वं स्फुटयति

यथेति ।

इह यध्यायति, मृत्वा ध्यानमहिम्ना तध्येयरूपेण जायत इत्यर्थः । क्रतुमयः सङ्कल्पप्रधान इति वार्थः ।

क्रतोर्विषयमाह

मन इति ।

ब्रह्मेत्युपक्रमान्मनोमयं प्राणशरीरं भारूपं सत्यसङ्कल्पमन्तर्ह्रदये ध्येयमित्यर्थः ।

पूर्वत्र ब्रह्मलिङ्गैरब्रह्मलिङ्गबाध उक्तः, न तथेहोपक्रमे ब्रह्मणो लिङ्गमस्ति, किन्तु प्रकरणम् । तच्च शान्तिगुणविधानार्थमन्यथासिद्वम् । अतो जीवलिङ्गं बलीय इति प्रत्युदाहरणेन पूर्वपक्षयति

शारीर इत्यादिना ।

श्रुतिमाशङ्क्यान्यथासिद्ध्या परिहरति

नैष दोष इति ।

शमविधिपरत्वे हेतुमाह

यत्कारणमिति ।

यत एवमाह तस्माच्छमविधिपरमित्यन्वयः । [अत्रेदंशब्दः प्रकृतब्रह्मपरामर्शार्थो नतु जगत्परामर्शार्थः, जगद्विशेषणे प्रयोजनाभावात् । अत्र प्रयोजनाभावेऽपि यत्र प्रयोजनं तत्र भवत्येव जगद्विशेषणम् , यथा 'आत्मैवेदं सर्वम्' । अत्र बाधायां समानाधिकरणदार्ढ्यार्थं विशेषणमावश्यकम् , तद्वाक्यस्य ज्ञेयब्रह्मविषयत्वात् । अत्र तूपासनायां बाधानावश्यकत्वाद्विषयाभेदेन ब्रह्मण उपास्यत्वात् । ]

नच शमेति ।

शमध्यानयोर्विधौ वाक्यभेदापत्तेरित्यर्थः ।

जन्मपरम्परया जीवस्यापि सर्वकर्मत्वादिसम्भवमाह

सर्वकर्मेति ।

सर्वाणि कर्माणि यस्य । सर्वे कामा भोग्या यस्य । सर्वगन्धः सर्वरस इत्यादिरादिशब्दार्थः ।

आराग्रमात्रस्येति ।

तोत्रप्रोतायःशलाकाग्रपरिमाणस्येत्यर्थः ।