सर्वत्र प्रसिद्वब्रह्मण एवात्रोपास्यत्वोपदेशान्न जीव उपास्य इति सूत्रार्थमाह
सर्वत्रेति ।
यत्र फलं नोच्यते तत्र पूर्वोत्तरपक्षसिद्विः फलमिति मन्तव्यम् । यद्यपि निराकाङ्क्षं ब्रह्म तथापि मनःप्रचुरमुपधिरस्य, प्राणः शरीरमस्येति समासान्तर्गतसर्वनाम्नः संनिहितविशेष्याकाङ्क्षत्वाद्ब्रह्म सम्बध्यते ।
'स्योनं ते सदनं करोमि' इति संस्कारार्थसदनस्य निराकाङ्क्षस्यापि 'तस्मिन्सीद' इति साकाङ्क्षतच्छब्देन परामर्शदर्शनादित्याह
अत्रोच्यत इति ।
स्योनं पात्रं ते पुरोडाशस्येति श्रुत्यर्थः ।
जीवोऽपि लिङ्गात्संनिहित इत्यत आह
जीवस्त्विति ।
इदं हि लिङ्गद्वयं लोकसिद्वं जीवं न संनिधापयति, दुःखिन उपास्त्ययोग्यत्वात्फलाभावाच्च । अतो विश्वजिन्न्यायेन सर्वाभिलषितमानन्दरूपं ब्रह्मैवोपासनाक्रियानुबन्धीति भावः ।
किञ्च ब्रह्मपदश्रुत्या लिङ्गबाध इत्याह
नचेति ।
अन्यतराकाङ्क्षानुगृहीतं फलवत्प्रकरणं विफललिङ्गाद्वलीय इति समुदायार्थः ॥ १ ॥