ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायःद्वितीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
सर्वत्र प्रसिद्धोपदेशात् ॥ १ ॥
इदमाम्नायते — ‘सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत । अथ खलु क्रतुमयः पुरुषो यथाक्रतुरस्मिँल्लोके पुरुषो भवति तथेतः प्रेत्य भवति स क्रतुं कुर्वीत’ (छा. उ. ३ । १४ । १), ‘मनोमयः प्राणशरीरः’ (छा. उ. ३ । १४ । २) इत्यादि । तत्र संशयः — किमिह मनोमयत्वादिभिर्धर्मैः शारीर आत्मोपास्यत्वेनोपदिश्यते, आहोस्वित्परं ब्रह्मेति । किं तावत्प्राप्तम् ? शारीर इति । कुतः ? तस्य हि कार्यकरणाधिपतेः प्रसिद्धो मनआदिभिः सम्बन्धः, न परस्य ब्रह्मणः; ‘अप्राणो ह्यमनाः शुभ्रः’ (मु. उ. २ । १ । २) इत्यादिश्रुतिभ्यः । ननु ‘सर्वं खल्विदं ब्रह्म’ इति स्वशब्देनैव ब्रह्मोपात्तम्; कथमिह शारीर आत्मोपास्यत्वेनाशङ्क्यते ? नैष दोषः । नेदं वाक्यं ब्रह्मोपासनाविधिपरम् । किं तर्हि ? शमविधिपरम्; यत्कारणम् ‘सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत’ इत्याह । एतदुक्तं भवति — यस्मात्सर्वमिदं विकारजातं ब्रह्मैव, तज्जत्वात् तल्लत्वात् तदनत्वाच्च — न च सर्वस्यैकात्मत्वे रागादयः सम्भवन्ति — तस्मात् शान्त उपासीतेति । न च शमविधिपरत्वे सत्यनेन वाक्येन ब्रह्मोपासनं नियन्तुं शक्यते । उपासनं तु ‘स क्रतुं कुर्वीत’ इत्यनेन विधीयते । क्रतुः सङ्कल्पो ध्यानमित्यर्थः । तस्य च विषयत्वेन श्रूयते — ‘मनोमयः प्राणशरीरः’ इति जीवलिङ्गम् । अतो ब्रूमः — जीवविषयमेतदुपासनमिति । ‘सर्वकर्मा सर्वकामः’ इत्याद्यपि श्रूयमाणं पर्यायेण जीवविषयमुपपद्यते । ‘एष म आत्मान्तर्हृदयेऽणीयान्व्रीहेर्वा यवाद्वा’ इति च हृदयायतनत्वमणीयस्त्वं चाराग्रमात्रस्य जीवस्यावकल्पते, नापरिच्छिन्नस्य ब्रह्मणः । ननु ‘ज्यायान्पृथिव्याः’ इत्याद्यपि न परिच्छिन्नेऽवकल्पत इति । अत्र ब्रूमः — न तावदणीयस्त्वं ज्यायस्त्वं चोभयमेकस्मिन्समाश्रयितुं शक्यम् , विरोधात् । अन्यतराश्रयणे च, प्रथमश्रुतत्वादणीयस्त्वं युक्तमाश्रयितुम् । ज्यायस्त्वं तु ब्रह्मभावापेक्षया भविष्यतीति । निश्चिते च जीवविषयत्वे यदन्ते ब्रह्मसङ्कीर्तनम् — ‘एतद्ब्रह्म’ (छा. उ. ३ । १४ । ४) इति, तदपि प्रकृतपरामर्शार्थत्वाज्जीवविषयमेव । तस्मान्मनोमयत्वादिभिर्धर्मैर्जीव उपास्य इत्येवं प्राप्ते ब्रूमः —

छान्दोग्यवाक्यमुदाहरति

इदमिति ।

तस्माज्जायत इति तज्जम् , तस्मिंल्लीयत इति तल्लम् , तस्मिन्ननिति चेष्टत इति तदनम् , तज्जं च तल्लं च तदनं चेति तज्जलान् । कर्मधारयेऽस्मिन् शाकपार्थिवन्यायेन मध्यमपदस्य तच्छब्दस्य लोपः । तज्जलानमिति वाच्ये छान्दसोऽवयवलोपः । इतिशब्दो हेतौ । सर्वमिदं जगद्ब्रह्मैव, तद्विवर्तत्वादित्यर्थः ।

ब्रह्मणि मित्रामित्रभेदाभावाच्छान्तो रागादिरहितो भवेदिति गुणविधिः । सक्रतुमुपासनं कुर्वीतेति विहितोपासनस्य 'उपासीत' इत्यनुवादात्फलमाह

अथेति ।

क्रतुमयः सङ्कल्पविकार इत्यर्थः ।

पुरुषस्य ध्यानविकारत्वं स्फुटयति

यथेति ।

इह यध्यायति, मृत्वा ध्यानमहिम्ना तध्येयरूपेण जायत इत्यर्थः । क्रतुमयः सङ्कल्पप्रधान इति वार्थः ।

क्रतोर्विषयमाह

मन इति ।

ब्रह्मेत्युपक्रमान्मनोमयं प्राणशरीरं भारूपं सत्यसङ्कल्पमन्तर्ह्रदये ध्येयमित्यर्थः ।

पूर्वत्र ब्रह्मलिङ्गैरब्रह्मलिङ्गबाध उक्तः, न तथेहोपक्रमे ब्रह्मणो लिङ्गमस्ति, किन्तु प्रकरणम् । तच्च शान्तिगुणविधानार्थमन्यथासिद्वम् । अतो जीवलिङ्गं बलीय इति प्रत्युदाहरणेन पूर्वपक्षयति

शारीर इत्यादिना ।

श्रुतिमाशङ्क्यान्यथासिद्ध्या परिहरति

नैष दोष इति ।

शमविधिपरत्वे हेतुमाह

यत्कारणमिति ।

यत एवमाह तस्माच्छमविधिपरमित्यन्वयः । [अत्रेदंशब्दः प्रकृतब्रह्मपरामर्शार्थो नतु जगत्परामर्शार्थः, जगद्विशेषणे प्रयोजनाभावात् । अत्र प्रयोजनाभावेऽपि यत्र प्रयोजनं तत्र भवत्येव जगद्विशेषणम् , यथा 'आत्मैवेदं सर्वम्' । अत्र बाधायां समानाधिकरणदार्ढ्यार्थं विशेषणमावश्यकम् , तद्वाक्यस्य ज्ञेयब्रह्मविषयत्वात् । अत्र तूपासनायां बाधानावश्यकत्वाद्विषयाभेदेन ब्रह्मण उपास्यत्वात् । ]

नच शमेति ।

शमध्यानयोर्विधौ वाक्यभेदापत्तेरित्यर्थः ।

जन्मपरम्परया जीवस्यापि सर्वकर्मत्वादिसम्भवमाह

सर्वकर्मेति ।

सर्वाणि कर्माणि यस्य । सर्वे कामा भोग्या यस्य । सर्वगन्धः सर्वरस इत्यादिरादिशब्दार्थः ।

आराग्रमात्रस्येति ।

तोत्रप्रोतायःशलाकाग्रपरिमाणस्येत्यर्थः ।