ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायःद्वितीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
प्रथमे पादे ‘जन्माद्यस्य यतः’ इत्याकाशादेः समस्तस्य जगतो जन्मादिकारणं ब्रह्मेत्युक्तम् । तस्य समस्तजगत्कारणस्य ब्रह्मणो व्यापित्वं नित्यत्वं सर्वज्ञत्वं सर्वशक्तित्वं सर्वात्मत्वमित्येवंजातीयका धर्मा उक्ता एव भवन्ति । अर्थान्तरप्रसिद्धानां च केषाञ्चिच्छब्दानां ब्रह्मविषयत्वहेतुप्रतिपादनेन कानिचिद्वाक्यानि स्पष्टब्रह्मलिङ्गानि सन्दिह्यमानानि ब्रह्मपरतया निर्णीतानि । पुनरप्यन्यानि वाक्यान्यस्पष्टब्रह्मलिङ्गानि सन्दिह्यन्ते — किं परं ब्रह्म प्रतिपादयन्ति, आहोस्विदर्थान्तरं किञ्चिदिति । तन्निर्णयाय द्वितीयतृतीयौ पादावारभ्येते —

प्रथमाध्याये द्वितीयः पादः ।

श्रीरामं सिद्धमत्तारं गुहाशायिनमान्तरम् । अन्तर्यामिणमज्ञेयं वैश्वानरमहं भजे ॥ १ ॥

पूर्वपादेनोत्तरपादयोः सङ्गतिं वक्तुं वृत्तमनुवदति

प्रथम इति ।

जगत्कारणत्वोक्त्या व्यापित्वादिकमर्थात्सिद्धम् । तदुपजीव्योत्तरं पादद्वयं प्रवर्तत इति हेतुहेतुमद्वावः सङ्गतिः ।

कथं पादभेद इत्याशङ्क्य पादानां प्रमेयभेदमाह

अर्थान्तरेति ।

आकाशादिशब्दानां स्पष्टब्रह्मलिङ्गैर्ब्रह्मणि समन्वयो दर्शितः । अस्पष्टब्रह्मलिङ्गवाक्यसमन्वयः पादद्वये वक्ष्यते । प्रायेणोपास्यज्ञेयब्रह्मभेदात्पादयोरवान्तरभेद इति भावः ।