ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः द्वितीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
स्मृतेश्च ॥ ६ ॥
स्मृतिश्च शारीरपरमात्मनोर्भेदं दर्शयतिईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठतिभ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया’ (भ. गी. १८ । ६१) इत्याद्या
स्मृतेश्च ॥ ६ ॥
स्मृतिश्च शारीरपरमात्मनोर्भेदं दर्शयतिईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठतिभ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया’ (भ. गी. १८ । ६१) इत्याद्या

स्मृतौ हृदिस्थस्य जीवाद्भेदोक्तेरत्रापि हृदिस्थो मनोमय ईश्वर इत्याह

स्मृतेश्चेति ।

भूतानि जीवान् । यन्त्रं शरीरम् ।