ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः द्वितीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
शब्दविशेषात् ॥ ५ ॥
इतश्च शारीरादन्यो मनोमयत्वादिगुणः; यस्माच्छब्दविशेषो भवति समानप्रकरणे श्रुत्यन्तरेयथा व्रीहिर्वा यवो वा श्यामाको वा श्यामाकतण्डुलो वैवमयमन्तरात्मन्पुरुषो हिरण्मयः’ (श. ब्रा. १० । ६ । ३ । २) इतिशारीरस्यात्मनो यः शब्दोऽभिधायकः सप्तम्यन्तःअन्तरात्मन्निति; तस्माद्विशिष्टोऽन्यः प्रथमान्तः पुरुषशब्दो मनोमयत्वादिविशिष्टस्यात्मनोऽभिधायकःतस्मात्तयोर्भेदोऽधिगम्यते ॥ ५ ॥

एकार्थत्वं प्रकरणस्य समानत्वम् । अन्तरात्मन्निति विभक्तिलोपश्छान्दसः । शब्दयोर्विशेषो विभक्तिभेदः । तस्मात्तदर्थयोर्भेद इति सूत्रार्थः ॥ ५ ॥