ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः द्वितीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
अर्भकौकस्त्वात्तद्व्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्च ॥ ७ ॥
अर्भकमल्पम् ओको नीडम् , ‘एष आत्मान्तर्हृदयेइति परिच्छिन्नायतनत्वात् , स्वशब्देन अणीयान्व्रीहेर्वा यवाद्वाइत्यणीयस्त्वव्यपदेशात् , शारीर एवाराग्रमात्रो जीव इहोपदिश्यते, सर्वगतः परमात्माइति यदुक्तं तत्परिहर्तव्यम्अत्रोच्यतेनायं दोषः तावत्परिच्छिन्नदेशस्य सर्वगतत्वव्यपदेशः कथमप्युपपद्यतेसर्वगतस्य तु सर्वदेशेषु विद्यमानत्वात्परिच्छिन्नदेशव्यपदेशोऽपि कयाचिदपेक्षया सम्भवतियथा समस्तवसुधाधिपतिरपि हि सन् अयोध्याधिपतिरिति व्यपदिश्यतेकया पुनरपेक्षया सर्वगतः सन्नीश्वरोऽर्भकौका अणीयांश्च व्यपदिश्यत इतिनिचाय्यत्वादेवमिति ब्रूमःएवम् अणीयस्त्वादिगुणगणोपेत ईश्वरः, तत्र हृदयपुण्डरीके निचाय्यो द्रष्टव्य उपदिश्यते; यथा सालग्रामे हरिःतत्रास्य बुद्धिविज्ञानं ग्राहकम्सर्वगतोऽपीश्वरस्तत्रोपास्यमानः प्रसीदतिव्योमवच्चैतद्द्रष्टव्यम्यथा सर्वगतमपि सद्व्योम सूचीपाशाद्यपेक्षयार्भकौकोऽणीयश्च व्यपदिश्यते, एवं ब्रह्मापितदेवं निचाय्यत्वापेक्षं ब्रह्मणोऽर्भकौकस्त्वमणीयस्त्वं , पारमार्थिकम्तत्र यदाशङ्क्यतेहृदयायतनत्वाद्ब्रह्मणो हृदयानां प्रतिशरीरं भिन्नत्वाद्भिन्नायतनानां शुकादीनामनेकत्वसावयवत्वानित्यत्वादिदोषदर्शनाद्ब्रह्मणोऽपि तत्प्रसङ्ग इति, तदपि परिहृतं भवति ॥ ७ ॥

अर्भकमोको यस्य सोऽर्भकौकाः तस्य भावस्तत्त्वं तस्मादार्थिकमल्पत्वम् । अणीयानित्यल्पत्ववाचकशब्देनापि श्रुतमित्याह

स्वशब्देनेति ।

नायं दोष इत्युक्तं विवृणोति

न तावदिति ।

कथमपि ।

ब्रह्मभावापेक्षयापीत्यर्थः । परिच्छेदत्यागं विना ब्रह्मत्वासम्भवात्तत्त्यागे च ब्रह्मण एवोपास्यत्वमायातीति भावः ।

विभोः परिच्छेदोक्तौ दृष्टान्तमाह

यथा समस्येति ।

सर्वेश्वरस्यायोध्यायां स्थित्यपेक्षया परिच्छेदोक्तिवदल्पहृदि ध्येयत्वेन तथोक्तिरित्यर्थः ।

ननु किमिति हृदयमेव प्रायेणोच्यते, तत्राह

तत्रेति ।

हृदये परमात्मनो बुद्विवृत्तिरर्ग्राहिका भवति । अत ईश्वराभिव्यक्तिस्थानत्वात्तदुक्तिरित्यर्थः ।

व्योमदृष्टान्तासिना शङ्कालतापि काचिच्छिन्नेत्याह

तत्र यदाशङ्क्यत इत्यादिना ।

भिन्नायतनत्वेऽपि व्योम्नः सत्यभेदाद्यभावादिति भावः ॥ ७ ॥