ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः द्वितीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
सम्भोगप्राप्तिरिति चेन्न वैशेष्यात् ॥ ८ ॥
व्योमवत्सर्वगतस्य ब्रह्मणः सर्वप्राणिहृदयसम्बन्धात् , चिद्रूपतया शारीरादविशिष्टत्वात् , सुखदुःखादिसम्भोगोऽप्यविशिष्टः प्रसज्येतएकत्वाच्च; हि परस्मादात्मनोऽन्यः कश्चिदात्मा संसारी विद्यते, नान्योऽतोऽस्ति विज्ञाता’ (बृ. उ. ३ । ७ । २३) इत्यादिश्रुतिभ्यःतस्मात्परस्यैव ब्रह्मणः सम्भोगप्राप्तिरिति चेत् , ; वैशेष्यात् तावत्सर्वप्राणिहृदयसम्बन्धात् शारीरवद्ब्रह्मणः सम्भोगप्रसङ्गः, वैशेष्यात्विशेषो हि भवति शारीरपरमेश्वरयोःएकः कर्ता भोक्ता धर्माधर्मादिसाधनः सुखदुःखादिमांश्चएकस्तद्विपरीतोऽपहतपाप्मत्वादिगुणःएतस्मादनयोर्विशेषादेकस्य भोगः, नेतरस्ययदि सन्निधानमात्रेण वस्तुशक्तिमनाश्रित्य कार्यसम्बन्धोऽभ्युपगम्येत, आकाशादीनामपि दाहादिप्रसङ्गःसर्वगतानेकात्मवादिनामपि समावेतौ चोद्यपरिहारौयदप्येकत्वाद्ब्रह्मण आत्मान्तराभावाच्छारीरस्य भोगेन ब्रह्मणो भोगप्रसङ्ग इति, अत्र वदामःइदं तावद्देवानांप्रियः प्रष्टव्यः; कथमयं त्वयात्मान्तराभावोऽध्यवसित इति । ‘तत्त्वमसि’ ‘अहं ब्रह्मास्मि’ ‘नान्योऽतोऽस्ति विज्ञाताइत्यादिशास्त्रेभ्य इति चेत् , यथाशास्त्रं तर्हि शास्त्रीयोऽर्थः प्रतिपत्तव्यः, तत्रार्धजरतीयं लभ्यम्शास्त्रं तत्त्वमसिइत्यपहतपाप्मत्वादिविशेषणं ब्रह्म शारीरस्यात्मत्वेनोपदिशच्छारीरस्यैव तावदुपभोक्तृत्वं वारयतिकुतस्तदुपभोगेन ब्रह्मण उपभोगप्रसङ्गःअथागृहीतं शारीरस्य ब्रह्मणैकत्वम् , तदा मिथ्याज्ञाननिमित्तः शारीरस्योपभोगः तेन परमार्थरूपस्य ब्रह्मणः संस्पर्शः हि बालैस्तलमलिनतादिभिर्व्योम्नि विकल्प्यमाने तलमलिनतादिविशिष्टमेव परमार्थतो व्योम भवतितदाह वैशेष्यादिति नैकत्वेऽपि शारीरस्योपभोगेन ब्रह्मण उपभोगप्रसङ्गः, वैशेष्यात्विशेषो हि भवति मिथ्याज्ञानसम्यग्ज्ञानयोःमिथ्याज्ञानकल्पित उपभोगः, सम्यग्ज्ञानदृष्टमेकत्वम् मिथ्याज्ञानकल्पितेनोपभोगेन सम्यग्ज्ञानदृष्टं वस्तु संस्पृश्यतेतस्मान्नोपभोगगन्धोऽपि शक्य ईश्वरस्य कल्पयितुम् ॥ ८ ॥

ब्रह्मणो हार्दत्वेऽनिष्टसम्भोगापत्तेर्जीव एव हार्द उपास्य इति शङ्कां व्याचष्टे

व्योमवदिति ।

ब्रह्म भोक्तृ स्यात्, हार्दत्वे सति चेतनत्वात् , जीवाभिन्नत्वाच्च जीववदित्युक्तं निरस्यति

न । वैशेष्यादिति ।

धर्माधर्मवत्त्वमुपाधिरित्यर्थः । अयमेव विशेषो वैशेष्यम् । स्वार्थे ष्यञ्प्रत्ययः । विशेषस्यातिशयार्थो वा । धर्मादेः स्वाश्रये फलहेतुत्वमतिशयः, तस्मादिति सूत्रार्थः ।

किञ्च विभवो बहव आत्मान इति वादिनामेकस्मिन्देहे सर्वात्मनां भोक्तृत्वप्रसङ्गः, स्वकर्मार्जित एव देहे भोग इति परिहारश्च तुल्य इति न वयं पर्यनुयोज्या इत्याह

सर्वगतेति ।

वस्तुतस्तेषामेव भोगसाङ्कर्यमित्यग्रे वक्ष्यते ।

ब्रह्मणो जीवाभिन्नत्वं श्रुत्या निश्चित्य तेन भोक्तृत्वानुमाने उपजीव्यश्रुतिबाधमाह

यथाशास्त्रमिति ।

अर्थं मुखमात्रं जरत्या वृद्धायाः कामयते नाङ्गानीति सोऽयमर्धजरतीयन्यायः । स चात्र न युक्तः ।

न ह्यभेदमङ्गीकृत्याभोक्तृत्वं त्यक्तुं युक्तम् , श्रुत्यैवाभेद सिद्ध्यर्थं भोक्तृत्ववारणादित्याह

शास्त्रं चेति ।

नन्वेकत्वं मया श्रुत्या न गृहीतम् , योनोपजीव्यबाधः स्यात् । किन्तु त्वदुक्त्या गृहीतमित्याशङ्क्य बिम्बप्रतिबिम्बयोः कल्पितभेदेन भोक्तृत्वाभोक्तृत्वव्यवस्थोपपत्तेरप्रयोजको हेतुरित्याह

अथागृहीतमित्यादिना ।

कल्पितासङ्गित्वमधिष्ठानस्य वैशेष्यमित्यस्मिन्नर्थेऽपि सूत्रं पातयति

तदाहेति ।

ब्रह्मणो हार्दत्वे बाधकाभावच्छाण्डिल्यविद्यावाक्यं ब्रह्मण्युपास्ये समन्वितमिति सिद्वम् ॥ ८ ॥