एकस्मिञ्जातिमति कॢप्ते सजातीयमेव द्वितीयं ग्राह्यम् , व्यक्तिमात्रग्रहे लाघवात् । न विजातीयम् , जातिव्यक्त्युभयकल्पनागौरवात् । न चास्तु कारकत्वेन सजातीया बुद्विरेव जीवस्य द्वितीयेति वाच्यम् , चेतनत्वस्य जीवस्वभावस्य कारकत्वादन्तरङ्गत्वात् । तथाच लोके द्वितीयस्यान्तरङ्गजातिमत्त्वदर्शनाज्जीवस्य द्वितीयश्चेतन एवेति सूत्रार्थमाह
सङ्ख्याश्रवणे चेति ।
गुहायां बुद्वौ स्थितम् , गह्वरेऽनेकानर्थसङ्कुले देहे स्थितं पुराणमनादिपुरुषं विदित्वा हर्षशोकौ जहाति । परमे श्रेष्ठे, व्योमन् हार्दाकाशे या गुहा बुद्धिः तस्यां निहितं ब्रह्म यो वेद सोऽश्नुते सर्वान्कामानित्यन्वयः । अन्विच्छ विचारयेत्यर्थः ॥ ११ ॥