ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः द्वितीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
विशेषणाच्च ॥ १२ ॥
विशेषणं विज्ञानात्मपरमात्मनोरेव भवतिआत्मानं रथिनं विद्धि शरीरं रथमेव तु’ (क. उ. १ । ३ । ३) इत्यादिना परेण ग्रन्थेन रथिरथादिरूपककल्पनया विज्ञानात्मानं रथिनं संसारमोक्षयोर्गन्तारं कल्पयतिसोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम्’ (क. उ. १ । ३ । ९) इति च परमात्मानं गन्तव्यं कल्पयतितथा तं दुर्दर्शं गूढमनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणम्अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति’ (क. उ. १ । २ । १२) इति पूर्वस्मिन्नपि ग्रन्थे मन्तृमन्तव्यत्वेनैतावेव विशेषितौप्रकरणं चेदं परमात्मनः । ‘ब्रह्मविदो वदन्तिइति वक्तृविशेषोपादानं परमात्मपरिग्रहे घटतेतस्मादिह जीवपरमात्मानावुच्येयाताम्एष एव न्यायः द्वा सुपर्णा सयुजा सखाया’ (मु. उ. ३ । १ । १) इत्येवमादिष्वपितत्रापि ह्यध्यात्माधिकारान्न प्राकृतौ सुपर्णावुच्येते । ‘तयोरन्यः पिप्पलं स्वाद्वत्तिइत्यदनलिङ्गाद्विज्ञानात्मा भवतिअनश्नन्नन्योऽभिचाकशीति’ (मु. उ. ३ । १ । १) इत्यनशनचेतनत्वाभ्यां परमात्माअनन्तरे मन्त्रे तावेव द्रष्टृद्रष्टव्यभावेन विशिनष्टिसमाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति मुह्यमानःजुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः’ (मु. उ. ३ । १ । २) इति

विशेषणं गन्तृगन्तव्यत्वादिकं लिङ्गमाह

विशेषणाच्चेति ।

स जीवोऽध्वनः संसारमार्गस्य परमं पारम् , किं तत् , विष्णोर्व्यापनशीलस्य परमात्मनः पदं स्वरूपमाप्नोतीत्यर्थः । दुर्दर्शं दुर्ज्ञानम् , तत्र हेतुर्गूढं मायावृतं मायानुप्रविष्टं पश्चाद्गुहाहितं गुहाद्वारा गह्वरेष्ठम् , एवं बहिरागतमात्मानम् , अध्यात्मयोगः स्थूलसूक्ष्मकारणदेहलयक्रमेण प्रत्यगात्मनि चित्तसमाधानं तेनाधिगमो महावाक्यजा वृत्तिस्तया विदित्वेत्यर्थः ।

ऋतपानमन्त्रे जीवानुवादेन वाक्यार्थज्ञानाय तत्पदार्थो ब्रह्म प्रतिपाद्यत इत्युपसंहरति

तस्मादिहेति ।

उक्तन्यायमतिदिशति

एष इति ।

द्वा द्वौ । छान्दसो द्विवचनस्याकारः । सुपर्णाविव सहैव युज्येते नियम्यनियामकभावेनेति सयुजौ । सखायौ चेतनत्वेन तुल्यस्वभावौ । समानमेकं वृक्षं छेदनयोग्यं शरीरमाश्रित्य स्थितावित्यर्थः । गुहां प्रविष्टाविति यावत् ।

एतावात्मानौ, तल्लिङ्गदर्शनादित्याह

तयोरन्य इति ।

विशेषणाच्चेत्याह

अनन्तरे चेति ।

अनीशया स्वस्येश्वरत्वाप्रतीत्या देहे निमग्नः पुरुषो जीवः शोचति । निमग्नपदार्थमाह

मुह्यमान इति ।

नरोऽहमिति भ्रान्त इत्यर्थः । जुष्टं ध्यानादिना सेवितं यदा ध्यानपरिपाकदशायामीशमन्यं विशिष्टरूपाद्भिन्नं शोधितचिन्मात्रं प्रत्यक्त्वेन पश्यति तदास्य महिमानं स्वरूपमेति प्राप्नोतीव । ततो वीतशोको भवतीत्यर्थः ।