ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः द्वितीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
विशेषणाच्च ॥ १२ ॥
अपर आह — ‘द्वा सुपर्णाइति नेयमृगस्याधिकरणस्य सिद्धान्तं भजते, पैङ्गिरहस्यब्राह्मणेनान्यथा व्याख्यातत्वात् — ‘तयोरन्यः पिप्पलं स्वाद्वत्तीति सत्त्वमनश्नन्नन्योऽभिचाकशीतीत्यनश्नन्नन्योऽभिपश्यति ज्ञस्तावेतौ सत्त्वक्षेत्रज्ञौइतिसत्त्वशब्दो जीवः क्षेत्रज्ञशब्दः परमात्मेति यदुच्यते, तन्न; सत्त्वक्षेत्रज्ञशब्दयोरन्तःकरणशारीरपरतया प्रसिद्धत्वात्तत्रैव व्याख्यातत्वात् — ‘तदेतत्सत्त्वं येन स्वप्नं पश्यति, अथ योऽयं शारीर उपद्रष्टा क्षेत्रज्ञस्तावेतौ सत्त्वक्षेत्रज्ञौइतिनाप्यस्याधिकरणस्य पूर्वपक्षं भजते ह्यत्र शारीरः क्षेत्रज्ञः कर्तृत्वभोक्तृत्वादिना संसारधर्मेणोपेतो विवक्ष्यतेकथं तर्हि ? सर्वसंसारधर्मातीतो ब्रह्मस्वभावश्चैतन्यमात्रस्वरूपः; ‘अनश्नन्नन्योऽभिचाकशीतीत्यनश्नन्नन्योऽभिपश्यति ज्ञःइति वचनात् , ‘तत्त्वमसिक्षेत्रज्ञं चापि मां विद्धि’ (भ. गी. १३ । २) इत्यादिश्रुतिस्मृतिभ्यश्चतावता विद्योपसंहारदर्शनमेवमेवावकल्पते, ‘तावेतौ सत्त्वक्षेत्रज्ञौ वा एवंविदि किञ्चन रज आध्वंसतेइत्यादिकथं पुनरस्मिन्पक्षेतयोरन्यः पिप्पलं स्वाद्वत्तीति सत्त्वम्इत्यचेतने सत्त्वे भोक्तृत्ववचनमिति, उच्यतेनेयं श्रुतिरचेतनस्य सत्त्वस्य भोक्तृत्वं वक्ष्यामीति प्रवृत्ता; किं तर्हि ? चेतनस्य क्षेत्रज्ञस्याभोक्तृत्वं ब्रह्मस्वभावतां वक्ष्यामीतितदर्थं सुखादिविक्रियावति सत्त्वे भोक्तृत्वमध्यारोपयतिइदं हि कर्तृत्वं भोक्तृत्वं सत्त्वक्षेत्रज्ञयोरितरेतरस्वभावाविवेककृतं कल्प्यतेपरमार्थतस्तु नान्यतरस्यापि सम्भवति, अचेतनत्वात्सत्त्वस्य, अविक्रियत्वाच्च क्षेत्रज्ञस्यअविद्याप्रत्युपस्थापितस्वभावत्वाच्च सत्त्वस्य सुतरां सम्भवतितथा श्रुतिःयत्र वा अन्यदिव स्यात्तत्रान्योऽन्यत्पश्येत्’ (बृ. उ. ४ । ५ । १५) इत्यादिना स्वप्नदृष्टहस्त्यादिव्यवहारवदविद्याविषय एव कर्तृत्वादिव्यवहारं दर्शयतियत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्’ (बृ. उ. ४ । ५ । १५) इत्यादिना विवेकिनः कर्तृत्वादिव्यवहाराभवं दर्शयति ॥ १२ ॥

'द्वा सुपर्णा' इति वाक्यं जीवेश्वरपरं कृत्वा चिन्तितम् । अधुनाकृत्वाचिन्तामुद्धाटयति

अपर इति ।

अन्यथा बुद्धिविलक्षणत्वं पदलक्ष्यपरत्वेनेत्यर्थः ।

सत्त्वं बुद्धिरिति शङ्कते

सत्त्वशब्द इति ।

बुद्धिजीवौ चेत्पूर्वपक्षार्थः स्यादित्यत आह

नापीति ।

पूर्वपक्षार्थस्तदा स्यात् , यद्यत्र बुद्धिभिन्नः संसारी प्रतिपाद्येत । नह्यत्र संसारी विवक्ष्यते किन्तु शोधितस्त्वमर्थो ब्रह्मेत्यर्थः । श्रुतिस्मृतिभ्यश्चायमर्थो युक्त इति शेषः । तावता मन्त्रव्याख्यामात्रेण । एवमेव जीवस्य ब्रह्मत्वोक्तावेव । नाहि जीवो बुद्धिभिन्न इति विवेकमात्रेणोपसंहारो युक्तः । भेदज्ञानस्य भ्रन्तित्वाद्वैफल्याच्चेति भावः । अविद्या विदुषि किमपि स्वकार्यं नाध्वंसते न सम्पादयति, ज्ञानाग्निना स्वस्या एव दग्धत्वादित्यर्थः । अविद्या नागच्छतीति वार्थः ।

जीवस्य ब्रह्मत्वपरमिदं वाक्यमिति पक्षे शङ्कते

कथमिति ।

बुद्धेर्भौक्तृत्वोक्तावतात्पर्यान्नात्र युक्तिचिन्तया मनः खेदनीयमित्याह

उच्यत इति ।

तदर्थं ब्रह्मत्वभोधनार्थं भोक्तृत्वमुपाधिमस्तके निक्षिपतीत्यर्थः ।

वस्तुतो जीवस्याभोक्तृत्वे भोक्तृत्वधीः कथमित्यत आह

इदं हीति ।

चित्तादात्म्येन कल्पिता बुद्धिः सुखादिरूपेण परिणमते । बुद्ध्यविवेकाच्चिदात्मनः सुखादिरूपवृत्तिव्यक्तचैतन्यवत्त्वं भोक्तृत्वं भातीत्यर्थः ।

भोक्तृत्वमाविद्यकम् , न वस्तुत इत्यत्र मानमाह

तथाचेति ।

यत्राविद्याकाले चैतन्यं भिन्नमिव भवति तदा । द्रष्टृत्वादिकं न वस्तुनि ज्ञात इत्यर्थः । तस्मात् 'ऋतं पिबन्तौ' इति वाक्यमेव गुहाधिकरणविषय इति स्थितम् ॥ १२ ॥