ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः द्वितीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
अन्तर उपपत्तेः ॥ १३ ॥
एषोऽक्षिणि पुरुषो दृश्यत एष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेतितद्यद्यप्यस्मिन्सर्पिर्वोदकं वा सिञ्चति वर्त्मनी एव गच्छति’ (छा. उ. ४ । १५ । १) इत्यादि श्रूयतेतत्र संशयःकिमयं प्रतिबिम्बात्माक्ष्यधिकरणो निर्दिश्यते, अथ विज्ञानात्मा, उत देवतात्मेन्द्रियस्याधिष्ठाता, अथवेश्वर इतिकिं तावत्प्राप्तम् ? छायात्मा पुरुषप्रतिरूप इतिकुतः ? तस्य दृश्यमानत्वप्रसिद्धेः, ‘ एषोऽक्षिणि पुरुषो दृश्यतेइति प्रसिद्धवदुपदेशात्विज्ञानात्मनो वायं निर्देश इति युक्तम् हि चक्षुषा रूपं पश्यंश्चक्षुषि सन्निहितो भवतिआत्मशब्दश्चास्मिन्पक्षेऽनुकूलो भवतिआदित्यपुरुषो वा चक्षुषोऽनुग्राहकः प्रतीयतेरश्मिभिरेषोऽस्मिन्प्रतिष्ठितः’ (बृ. उ. ५ । ५ । २) इति श्रुतेः, अमृतत्वादीनां देवतात्मन्यपि कथञ्चित्सम्भवात्नेश्वरः, स्थानविशेषनिर्देशात्इत्येवं प्राप्ते ब्रूमः

अन्तर उपपत्तेः । उपकोसलविद्यावाक्यमुदाहरति

य इति ।

तदक्षिस्थानमसङ्गत्वेन ब्रह्मणोऽनुरूपं यतोऽस्मिन्क्षिप्तं वर्त्मनी पक्ष्मणी एव गच्छतीत्यर्थः ।

दर्शनस्य लौकिकत्वशास्त्रीयत्वाभ्यां संशयमाह

तत्रेति ।

पूर्वं 'पिबन्तौ' इति प्रथमश्रुतचेतनत्वानुसारेण चरमश्रुता गुहाप्रवेशादयो नीताः, तद्वदिहापि दृश्यत इति चाक्षुषत्वानुसारेणामृतत्वादयो ध्यानार्थं कल्पितत्वेन नेया इति दृष्टान्तेन पूर्वपक्षयति

छायात्मेति ।

पूर्वपक्षे प्रतिबिम्बोपास्तिः, सिद्वान्ते ब्रह्मोपास्तिरिति फलम् ।

प्रसिद्ववदिति ।

चाक्षुषत्वेनेत्यर्थः ।

सम्भावनामात्रेण पक्षान्तरमाह

विज्ञानात्मन इत्यादिना ।

'मनो ब्रह्म' इतिवत् , 'एतद्ब्रह्मेति' इति वाक्यस्येतिपदशिरस्कत्वान्न स्वार्थपरत्वमिति पूर्वपक्षः ।