ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः द्वितीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
अन्तर उपपत्तेः ॥ १३ ॥
परमेश्वर वाक्षिण्यभ्यन्तरः पुरुष इहोपदिष्ट इतिकस्मात् ? उपपत्तेःउपपद्यते हि परमेश्वरे गुणजातमिहोपदिश्यमानम्आत्मत्वं तावन्मुख्यया वृत्त्या परमेश्वरे उपपद्यते, ‘ आत्मा तत्त्वमसिइति श्रुतेःअमृतत्वाभयत्वे तस्मिन्नसकृच्छ्रुतौ श्रूयेतेतथा परमेश्वरानुरूपमेतदक्षिस्थानम्यथा हि परमेश्वरः सर्वदोषैरलिप्तः, अपहतपाप्मत्वादिश्रवणात्; तथाक्षिस्थानं सर्वलेपरहितमुपदिष्टम्तद्यद्यप्यस्मिन्सर्पिर्वोदकं वा सिञ्चति, वर्त्मनी एव गच्छतिइति श्रुतेःसंयद्वामत्वादिगुणोपदेशश्च तस्मिन्नवकल्पतेएतं संयद्वाम इत्याचक्षतेएतं हि सर्वाणि वामान्यभिसंयन्ति’, (छा. उ. ४ । १५ । २) एष एव वामनीरे हि सर्वाणि वामानि नयति ।’ (छा. उ. ४ । १५ । ३)एष एव भामनीरे हि सर्वेषु लोकेषु भाति’ (छा. उ. ४ । १५ । ४) इति अत उपपत्तेरन्तरः परमेश्वरः ॥ १३ ॥

'मनो ब्रह्मेत्युपासीत' इत्यत्र इतिपदस्य प्रत्ययपरत्वात् , इह च ब्रह्मेत्युवाचेत्यन्वयेन इतिपदस्योक्तिसम्बन्धिनोऽर्थपरत्वाद्वैषम्यमिति सिद्वान्तयति

परमेश्वर एवेति ।

बहुप्रमाणसंवादस्तात्पर्यानुग्राहक इति न्यायानुगृहीताभ्यामात्मब्रह्मश्रुतिभ्यां दृश्यलिङ्गं बाध्यमित्याह

संयद्वामेति ।

वामानि कर्मफलान्येतमक्षिपुरुषमभिलक्ष्य संयन्ति उत्पद्यन्ते । सर्वफलोदयहेतुरित्यर्थः ।

लोकानां फलदाताप्ययमेवेत्याह

वामनीरिति ।

नयति फलानि लोकान्प्रापयतीत्यर्थः ।

भामानि भानानि नयत्ययमित्याह

भामनीरिति ।

सर्वार्थप्रकाशक इत्यर्थः ॥ १३ ॥