ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः द्वितीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
स्थानादिव्यपदेशाच्च ॥ १४ ॥
कथं पुनराकाशवत्सर्वगतस्य ब्रह्मणोऽक्ष्यल्पं स्थानमुपपद्यत इति, अत्रोच्यतेभवेदेषानवकॢप्तिः, यद्येतदेवैकं स्थानमस्य निर्दिष्टं भवेत्सन्ति ह्यन्यान्यपि पृथिव्यादीनि स्थानान्यस्य निर्दिष्टानियः पृथिव्यां तिष्ठन्’ (बृ. उ. ३ । ७ । ३) इत्यादिनातेषु हि चक्षुरपि निर्दिष्टम्यश्चक्षुषि तिष्ठन्इतिस्थानादिव्यपदेशादित्यादिग्रहणेनैतद्दर्शयति केवलं स्थानमेवैकमनुचितं ब्रह्मणो निर्दिश्यमानं दृश्यतेकिं तर्हि ? नाम रूपमित्येवंजातीयकमप्यनामरूपस्य ब्रह्मणोऽनुचितं निर्दिश्यमानं दृश्यतेतस्योदिति नाम’ (छा. उ. १ । ६ । ७)हिरण्यश्मश्रुःइत्यादिनिर्गुणमपि सद्ब्रह्म नामरूपगतैर्गुणैः सगुणमुपासनार्थं तत्र तत्रोपदिश्यत इत्येतदप्युक्तमेवसर्वगतस्यापि ब्रह्मण उपलब्ध्यर्थं स्थानविशेषो विरुध्यते, सालग्राम इव विष्णोरित्येतदप्युक्तमेव ॥ १४ ॥

स्थाननामरूपाणां ध्यानार्थं श्रुत्यन्तरेऽप्युपदेशादक्षिस्थानत्वोक्तिरत्र न दोष इति सूत्रयोजना । अनवकॢप्तिः अकॢप्तकल्पना तदा भवेत् , यद्यत्रैव निर्दिष्टं भवेदित्यन्वयः । नन्वनुचितबाहुल्योक्तिरसमाधानमित्याशङ्क्य युक्तिमाह

निर्गुणमपीति ॥ १४ ॥