प्रकरणादपि ब्रह्म ग्राह्यमित्याह
सुखविशिष्टेति ।
ध्यानार्थं भेदकल्पनया सुखगुणविशिष्टस्य ब्रह्मणः प्रकृतस्य य एष इति सर्वनाम्नाभिधानादन्तरः परमात्मा स्यादिति सूत्रार्थः ।
ननु प्रकरणात्प्रबलेन दृश्यत्वलिङ्गेनोपस्थापितश्छायात्मा सर्वनामार्थ इत्यत आह
आचार्यस्त्विति ।
उपकोसलो नाम कश्चिद्ब्रह्मचारी जाबालस्याचार्यस्याग्नीन्द्वादशवत्सरान्परिचचार । तमनुपदिश्य देशान्तरगते जाबाले गार्हपत्याद्यग्निभिर्दयया 'प्राणो ब्रह्म' इत्यात्मविद्यामुपदिश्योक्तम्
आचार्यस्त्विति ।
तवात्मविद्याफलावाप्तये मार्गमर्चिरादिकं वदिष्यतीत्यर्थः । पश्चादाचार्येणागत्य 'य एषोऽक्षिणि' इत्युक्तार्चिरादिका गतिरुक्ता । तथा चाग्निभिरुक्तात्मविद्यावाक्यस्य गतिवाक्येनैकवाक्यता वाच्या, सा च सर्वनाम्ना प्रकृतात्मग्रहे निर्वहतीत्येकवाक्यतानिर्वाहकं प्रकरणं वाक्यभेदकाल्लिङ्गाद्बलवदिति भावः ।
श्रुतिं व्यचष्टे
उच्यत इति ।
प्राणश्च सूत्रात्मा बृहत्त्वाद्ब्रह्मेति यत्तज्जानामि, कं विषयसुखं खं च भूताकाशं ब्रह्मत्वेन ज्ञातुं न शक्नोमीत्यर्थः ।
खं कथम्भूतम् , यत्कं तदेव खमिति सुखेन विशेषितस्य खस्य भूतत्वनिरासः । तथा कं कथम्भूतम् , यत्खं तदेव कमिति विभुत्वेन विशेषितस्य कस्य जन्यत्वनिरास इति व्यतिरेकमुखेनाह
तत्र खमित्यादिना ।
'आत्मविद्या' इति श्रुतिविरोधात्प्रतीकध्यानमत्रानिष्टमिति भावः ।
सामय इति ।
आमयो दोषः साधनपारतन्त्र्यानित्यत्वादिः, तत्सहित इत्यर्थः ।
प्रत्येकग्रहणे दोषमुक्त्वा द्वयोर्ग्रहणे फलितमाह
इतरेतरेति ।
विशेषितार्थकावित्यर्थः ।
नन्वेकं ब्रह्मैवात्र ध्येयं चेद्ब्रह्मपदान्तरं किमर्थमित्यत आह
तत्रेति ।
विशेषणत्वेन खस्य भूतत्वव्यावर्तकत्वेनेत्यर्थः । ब्रह्मशब्दः शिरो ययोस्तत्त्वमिति विग्रहः ।
अध्येयत्वे को दोषः, तत्राह
इष्टं हीति ।
मार्गोक्त्या सुगुणविद्यात्वावगमादिति भावः ।
आत्मविद्यापदेनोपसंहारादपि प्रकृतं ब्रह्मेत्याह
प्रत्येकं चेति ।
पृथिव्यग्निरन्नमादित्य इति मम चतस्रस्तनवो विभूतिरिति गार्हपत्य उपदिदेश । आपो दिशो नक्षत्राणि चन्द्रमा इत्यन्वाहार्यपचन उवाच । प्राण आकाशो द्यौर्विद्युदिति स्वमहिमानमाहवनीयो जगादेति विभागः । इयमस्माकमग्नीनां विद्या प्रत्येकमुक्ता । आत्मविद्या तु पूर्वमस्माभिर्मिलित्वा 'प्राणो ब्रह्म' इत्युक्तेत्यर्थः ।
उच्यतामग्निभिर्ब्रह्म, छायात्मा गुरुणोच्यतां वक्तृभेदादिति तत्राह
आचार्यस्त्विति ।
एकवाक्यतानिश्चयाद्वक्तृभेदेऽपि नार्थभेद इत्यर्थः ॥ १५ ॥