ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः द्वितीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
श्रुतोपनिषत्कगत्यभिधानाच्च ॥ १६ ॥
इतश्चाक्षिस्थानः पुरुषः परमेश्वरः, यस्माच्छ्रुतोपनिषत्कस्य श्रुतरहस्यविज्ञानस्य ब्रह्मविदो या गतिर्देवयानाख्या प्रसिद्धा श्रुतौथोत्तरेण तपसा ब्रह्मचर्येण श्रद्धया विद्ययात्मानमन्विष्यादित्यमभिजयन्तेएतद्वै प्राणानामायतनमेतदमृतमभयमेतत्परायणमेतस्मान्न पुनरावर्तन्ते’ (प्र. उ. १ । १०) इति, स्मृतावपिअग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम्तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः’ (भ. गी. ८ । २४) इति, सैवेहाक्षिपुरुषविदोऽभिधीयमाना दृश्यते । ‘अथ यदु चैवास्मिञ्छव्यं कुर्वन्ति यदि नार्चिषमेवाभिसम्भवन्तिइत्युपक्रम्य आदित्याच्चन्द्रमसं चन्द्रमसो विद्युतं तत्पुरुषोऽमानवः एनान्ब्रह्म गमयत्येष देवपथो ब्रह्मपथ एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्ते’ (छा. उ. ४ । १५ । ५) इतितदिह ब्रह्मविद्विषयया प्रसिद्धया गत्या अक्षिस्थानस्य ब्रह्मत्वं निश्चीयते ॥ १६ ॥

श्रुता अनुष्ठिता उपनिषत्रहस्यं सगुणब्रह्मोपासनं येन तस्य या गतिः श्रुतौ स्मृतौ च प्रसिद्वा तस्या अत्राभिधानाल्लिङ्गादिति सूत्रार्थमाह

इतश्चेति ।

यस्मादृश्यते तत्तस्मादिहेत्यन्वयः ।

श्रुतिमाह

अथेति ।

देहपातानन्तरमित्यर्थः । स्वधर्मस्तपः तपोब्रह्मचर्यश्रद्धाविद्याभिरात्मानं ध्यात्वा तया ध्यानविद्ययोत्तरं देवयानमार्गं प्राप्यते नोत्तरेण पथा । आदित्यद्वारा सगुणब्रह्मस्थानं गच्छन्ति, एतद्वै ब्रह्म प्राणानां व्यष्टिसमष्टिरूपाणामायतनं लिङ्गात्मकं हिरण्यगर्भरूपम् , वस्तुतस्त्वेतदमृतादिरूपं निर्गुणं सर्वाधिष्ठानम् । अतः कार्यं ब्रह्म प्राप्य तत्स्वरूपं निर्गुणं ज्ञात्वा मुच्यन्त इत्यर्थः । अग्निरेव ज्योतिर्देवता एवमहराद्या देवता एव स्मृतावुक्ताः । अस्मिन्नुपासके मृते सति यदि पुत्रादयः शव्यं शवसंस्कारादिकं कुर्वन्ति यदि च न कुर्वन्ति उभयथाप्युपास्तिमहिम्ना अर्चिरादिदेवान्क्रमेण गच्छन्ति । आर्चिषमग्निम् , ततोऽहः, अह्नः शुक्लपक्षम् , तत्र उत्तरायणम् , तस्मात्संवत्सरम् , ततो देवलोकम् , ततो वायुम् , वायोरादित्यम् , ततश्चन्द्रम् , चन्द्राद्विद्युतं गत्वा तत्र विद्युल्लोके स्थितानुपासकानमानवः पुरुषो ब्रह्मलोकादागत्य कार्यं ब्रह्मलोकं प्रापयति । एषोऽर्चिरादिभिर्देवैर्विशिष्टो देवपथो गन्तव्येन ब्रह्मणा योगाद्ब्रह्मपथश्च । त एतत्कार्यं ब्रह्म प्रतिपद्यमाना उपासका इमं मानवं मनोः सर्गमावर्तं जन्ममरणावृत्तियुक्तं नावर्तन्ते नागच्छन्तीत्यर्थः ॥ १६ ॥