'द्वा सुपर्णा' इति वाक्यं जीवेश्वरपरं कृत्वा चिन्तितम् । अधुनाकृत्वाचिन्तामुद्धाटयति
अपर इति ।
अन्यथा बुद्धिविलक्षणत्वं पदलक्ष्यपरत्वेनेत्यर्थः ।
सत्त्वं बुद्धिरिति शङ्कते
सत्त्वशब्द इति ।
बुद्धिजीवौ चेत्पूर्वपक्षार्थः स्यादित्यत आह
नापीति ।
पूर्वपक्षार्थस्तदा स्यात् , यद्यत्र बुद्धिभिन्नः संसारी प्रतिपाद्येत । नह्यत्र संसारी विवक्ष्यते किन्तु शोधितस्त्वमर्थो ब्रह्मेत्यर्थः । श्रुतिस्मृतिभ्यश्चायमर्थो युक्त इति शेषः । तावता मन्त्रव्याख्यामात्रेण । एवमेव जीवस्य ब्रह्मत्वोक्तावेव । नाहि जीवो बुद्धिभिन्न इति विवेकमात्रेणोपसंहारो युक्तः । भेदज्ञानस्य भ्रन्तित्वाद्वैफल्याच्चेति भावः । अविद्या विदुषि किमपि स्वकार्यं नाध्वंसते न सम्पादयति, ज्ञानाग्निना स्वस्या एव दग्धत्वादित्यर्थः । अविद्या नागच्छतीति वार्थः ।
जीवस्य ब्रह्मत्वपरमिदं वाक्यमिति पक्षे शङ्कते
कथमिति ।
बुद्धेर्भौक्तृत्वोक्तावतात्पर्यान्नात्र युक्तिचिन्तया मनः खेदनीयमित्याह
उच्यत इति ।
तदर्थं ब्रह्मत्वभोधनार्थं भोक्तृत्वमुपाधिमस्तके निक्षिपतीत्यर्थः ।
वस्तुतो जीवस्याभोक्तृत्वे भोक्तृत्वधीः कथमित्यत आह
इदं हीति ।
चित्तादात्म्येन कल्पिता बुद्धिः सुखादिरूपेण परिणमते । बुद्ध्यविवेकाच्चिदात्मनः सुखादिरूपवृत्तिव्यक्तचैतन्यवत्त्वं भोक्तृत्वं भातीत्यर्थः ।
भोक्तृत्वमाविद्यकम् , न वस्तुत इत्यत्र मानमाह
तथाचेति ।
यत्राविद्याकाले चैतन्यं भिन्नमिव भवति तदा । द्रष्टृत्वादिकं न वस्तुनि ज्ञात इत्यर्थः । तस्मात् 'ऋतं पिबन्तौ' इति वाक्यमेव गुहाधिकरणविषय इति स्थितम् ॥ १२ ॥