अन्तर उपपत्तेः । उपकोसलविद्यावाक्यमुदाहरति
य इति ।
तदक्षिस्थानमसङ्गत्वेन ब्रह्मणोऽनुरूपं यतोऽस्मिन्क्षिप्तं वर्त्मनी पक्ष्मणी एव गच्छतीत्यर्थः ।
दर्शनस्य लौकिकत्वशास्त्रीयत्वाभ्यां संशयमाह
तत्रेति ।
पूर्वं 'पिबन्तौ' इति प्रथमश्रुतचेतनत्वानुसारेण चरमश्रुता गुहाप्रवेशादयो नीताः, तद्वदिहापि दृश्यत इति चाक्षुषत्वानुसारेणामृतत्वादयो ध्यानार्थं कल्पितत्वेन नेया इति दृष्टान्तेन पूर्वपक्षयति
छायात्मेति ।
पूर्वपक्षे प्रतिबिम्बोपास्तिः, सिद्वान्ते ब्रह्मोपास्तिरिति फलम् ।
प्रसिद्ववदिति ।
चाक्षुषत्वेनेत्यर्थः ।
सम्भावनामात्रेण पक्षान्तरमाह
विज्ञानात्मन इत्यादिना ।
'मनो ब्रह्म' इतिवत् , 'एतद्ब्रह्मेति' इति वाक्यस्येतिपदशिरस्कत्वान्न स्वार्थपरत्वमिति पूर्वपक्षः ।