स्थाननामरूपाणां ध्यानार्थं श्रुत्यन्तरेऽप्युपदेशादक्षिस्थानत्वोक्तिरत्र न दोष इति सूत्रयोजना । अनवकॢप्तिः अकॢप्तकल्पना तदा भवेत् , यद्यत्रैव निर्दिष्टं भवेदित्यन्वयः । नन्वनुचितबाहुल्योक्तिरसमाधानमित्याशङ्क्य युक्तिमाह
निर्गुणमपीति ॥ १४ ॥