अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात् । बृहदारण्यकवाक्यमुदाहरति
य इति ।
अन्तर्यामिब्रह्मणे प्रतीयमानार्थमाह
अत्रेति ।
'यः पृथिव्याम्' इत्यादिना देवताः पृथिव्याद्या अधिकृत्य यमयिता श्रूयते । तथा 'यः सर्वेषु लोकेषु' इत्यधिलोकम् , 'यः सर्वेषु वेदेषु' इत्यधिवेदम् , 'यः सर्वेषु यज्ञेषु' इत्यधियज्ञम् , 'यः सर्वेषु भूतेषु' इत्यधिभूतम् , 'यः प्राणे तिष्ठन्' इत्यादि 'य आत्मानि' इत्यन्तमध्यात्मं चेति विभागः । अशरीरस्य नियन्तृत्वसम्भवासम्भवाभ्यां संशयः । पूर्वत्रेश्वरस्याक्षिस्थानत्वसिद्धये पृथिव्यादिस्थाननिर्देशो दृष्टान्त उक्तः, तस्य दृष्टान्तवाक्यस्येश्वरपरत्वमत्राक्षिप्य समाधीयत इत्याक्षेपसङ्गतिः । अतः पूर्वफलेनास्य पलवत्त्वम् । अवान्तरफलं तु पूर्वपक्षे अनीश्वरोपास्तिः, सिद्वान्ते प्रत्यग्ब्रह्मज्ञानमिति मन्तव्यम् ।
स्वयमेवारुचिं वदन्पक्षान्तरमाह
अथवेति ।
अनिश्चितार्थे फलाभावेनाफलस्य वेदार्थत्वायोगादिति भावः । तथाच श्रूयते वेदे । पृथिवी यस्य देवस्यायतनं शरीरम् , लोक्यतेऽनेनेति लोकश्चक्षुः, ज्योतिः सर्वार्थप्रकाशकं मन इत्यर्थः ।
उपक्रमादिनान्तर्याम्यैक्यनिश्चयादनेकदेवपक्षो न युक्त इत्यरुचेराह
योगिनो वेति ।
आगन्तुकसिद्धस्यान्तर्यामित्वेऽप्रसिद्धसाधनकल्पनागौरवान्नित्यसिद्ध एवान्तर्यामीति सिद्धान्तयति
एवं प्राप्त इति ।