ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः द्वितीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात् ॥ १८ ॥
योऽन्तर्याम्यधिदैवादिषु श्रूयते, परमात्मैव स्यात् , नान्य इतिकुतः ? तद्धर्मव्यपदेशात्तस्य हि परमात्मनो धर्मा इह निर्दिश्यमाना दृश्यन्तेपृथिव्यादि तावदधिदैवादिभेदभिन्नं समस्तं विकारजातमन्तस्तिष्ठन्यमयतीति परमात्मनो यमयितृत्वं धर्म उपपद्यतेसर्वविकारकारणत्वे सति सर्वशक्त्युपपत्तेः । ‘एष आत्मान्तर्याम्यमृतःइति चात्मत्वामृतत्वे मुख्ये परमात्मन उपपद्येते । ‘यं पृथिवी वेदइति पृथिवीदेवताया अविज्ञेयमन्तर्यामिणं ब्रुवन्देवतात्मनोऽन्यमन्तर्यामिणं दर्शयतिपृथिवी देवता ह्यहमस्मि पृथिवीत्यात्मानं विजानीयात्तथाअदृष्टोऽश्रुतःइत्यादिव्यपदेशो रूपादिविहीनत्वात्परमात्मन उपपद्यत इतियत्त्वकार्यकरणस्य परमात्मनो यमयितृत्वं नोपपद्यत इति, नैष दोषः; यान्नियच्छति तत्कार्यकरणैरेव तस्य कार्यकरणवत्त्वोपपत्तेःतस्याप्यन्यो नियन्तेत्यनवस्थादोषश्च सम्भवति, भेदाभावात्भेदे हि सत्यनवस्थादोषोपपत्तिःतस्मात्परमात्मैवान्तर्यामी ॥ १८ ॥

देवतानिरासे हेत्वन्तरमाह

यं पृथिवीति ।

ईश्वरो न नियन्ता, अशरीरत्वात् , घटवदियुक्तं निरस्यति

नैष दोष इति ।

नियम्यातिरिक्तशरीरशून्यत्वं वा हेतुः, शरीरासम्बन्धित्वं वा । आद्ये, स्वदेहनियन्तरि जीवे व्यभिचारः । द्वितीयस्त्वसिद्धः, ईश्वरस्य स्वाविद्योपार्जितसर्वसम्बन्धित्वादित्याह

यान्नियच्छतीति ।

सशरीरो नियन्तेतिलोकदृष्टिमनुसृत्यैतदुक्तम् । वस्तुतस्तु चेतनसांनिध्याज्जडस्य व्यापारो नियमनं तच्छक्तिमत्त्वं नियन्तृत्वम् । तच्चाचिन्त्यमायाशक्तेश्चिदात्मनः शरीरं विनैवोपपन्नम् ।

ननु देहनियन्तुर्जीवस्यान्यो नियन्ता चेत्तस्याप्यन्य इत्यनवस्थेत्यत आह

तस्यापीति ।

निरङ्कुशं सर्वनियन्तृत्वमीश्वरस्य श्रुतम् , तस्य नियन्त्रन्तरानुमाने श्रुतिबाध दति नानवस्थेत्यर्थः । यद्वा ईश्वराद्भेदकल्पनया जीवस्य नियन्तृत्वोक्तेः सत्यभेदाभावान्नानवस्थेत्यर्थः ॥ १८ ॥