ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः द्वितीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
शारीरश्चोभयेऽपि हि भेदेनैनमधीयते ॥ २० ॥
नेति पूर्वसूत्रादनुवर्ततेशारीरश्च नान्तर्यामी स्यात्कस्मात् ? यद्यपि द्रष्टृत्वादयो धर्मास्तस्य सम्भवन्ति, तथापि घटाकाशवदुपाधिपरिच्छिन्नत्वान्न कार्त्स्न्येन पृथिव्यादिष्वन्तरवस्थातुं नियन्तुं शक्नोतिअपि चोभयेऽपि हि शाखिनः काण्वा माध्यन्दिनाश्चान्तर्यामिणो भेदेनैनं शारीरं पृथिव्यादिवदधिष्ठानत्वेन नियम्यत्वेन चाधीयतेयो विज्ञाने तिष्ठन्’ (बृ. उ. ३ । ७ । २२) इति काण्वाः । ‘ आत्मनि तिष्ठन्इति माध्यन्दिनाः । ‘ आत्मनि तिष्ठन्इत्यस्मिंस्तावत् पाठे भवत्यात्मशब्दः शारीरस्य वाचकः । ‘यो विज्ञाने तिष्ठन्इत्यस्मिन्नपि पाठे विज्ञानशब्देन शारीर उच्यते, विज्ञानमयो हि शारीर इतितस्माच्छारीरादन्य ईश्वरोऽन्तर्यामीति सिद्धम्कथं पुनरेकस्मिन्देहे द्वौ द्रष्टारावुपपद्येते यश्चायमीश्वरोऽन्तर्यामी, यश्चायमितरः शारीरः ? का पुनरिहानुपपत्तिः ? ‘नान्योऽतोऽस्ति द्रष्टाइत्यादिश्रुतिवचनं विरुध्येतअत्र हि प्रकृतादन्तर्यामिणोऽन्यं द्रष्टारं श्रोतारं मन्तारं विज्ञातारं चात्मानं प्रतिषेधतिनियन्त्रन्तरप्रतिषेधार्थमेतद्वचनमिति चेत् , ; नियन्त्रन्तराप्रसङ्गादविशेषश्रवणाच्चअत्रोच्यतेअविद्याप्रत्युपस्थापितकार्यकरणोपाधिनिमित्तोऽयं शारीरान्तर्यामिणोर्भेदव्यपदेशः, पारमार्थिकःएको हि प्रत्यगात्मा भवति, द्वौ प्रत्यगात्मानौ सम्भवतःएकस्यैव तु भेदव्यवहार उपाधिकृतः, यथा घटाकाशो महाकाश इतिततश्च ज्ञातृज्ञेयादिभेदश्रुतयः प्रत्यक्षादीनि प्रमाणानि संसारानुभवो विधिप्रतिषेधशास्त्रं चेति सर्वमेतदुपपद्यतेतथा श्रुतिः — ‘यत्र हि द्वैतमिव भवति तदितर इतरं पश्यतिइत्यविद्याविषये सर्वं व्यवहारं दर्शयति । ‘यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्इति विद्याविषये सर्वं व्यवहारं वारयति ॥ २० ॥

दृष्टेर्द्रष्टारमात्मानं तया दृश्यया दृष्ट्या न विषयीकुर्या इत्यादिश्रुतेश्चादृष्टत्वादिधर्माः शारीरस्येत्याह

नेति ।

अपिशब्दसूचितं हेतुमुक्त्वा कण्ठोक्तं हेतुमाह

अपि चोभयेऽपीति ।

भेदेनेति सूत्रात्तात्त्विकभेदभ्रान्तिं निरसितुं शङ्कते

कथमिति ।

नन्वत्रैको भोक्ता जीवः, ईश्वरस्त्वभोक्तेति न विरोध इति शङ्कते

का पुनरिति ।

तयोर्भेदः श्रुतिविरुद्ध इति पूर्ववाद्याह

नान्य इति ।

स एव श्रुत्यर्थमाह

अत्रेति ।

श्रुतेरर्थान्तरमाशङ्क्य निषेधति

नियन्त्रन्तरेत्यादिना ।

न केवलमप्रसक्तप्रतिषेधः, किन्त्वविशेषेण द्रष्ट्रन्तरनिषेधश्रुतेरन्तर्याम्यन्तरनिषेधार्थत्वे बाधश्चेत्याह

अविशेषेति ।

तस्मात्सूत्रे, 'य आत्मानि तिष्ठन्' इति श्रुतौ च द्रष्टृभेदोक्तिरयुक्ता, 'नान्यः' इति वाक्यशेषे भेदनिरासादिति प्राप्ते, भेद उपाधिकल्पितः श्रुतिसूत्राभ्यामनूद्यत इति समाधत्ते

अत्रोच्यत इति ।

भेदः सत्यः किं न स्यादत आह

एको हीति ।

गौरवेण द्वयोरहन्धीगोचरत्वासम्भावदेक एव तद्गोचरः । तदगोचरस्य घटवदनात्मत्वान्नात्मभेदः सत्य इत्यर्थः ।

ततश्चेति ।

कल्पितभेदाङ्गीकाराद्भेदापेक्षं सर्वं युज्यत इत्यर्थः । तस्मादन्तर्यामिब्राह्मणं ज्ञेये ब्रह्मणि समन्वितमिति सिद्धम् ॥ २० ॥