वृत्तिकृन्मतेनादौ सूत्रं व्याचष्टे
अपिचेत्यादिना ।
'प्राणो मनः सर्वेन्द्रियाणि च खं वायुर्ज्योतिरापः पृथिवी' इति श्रुतिः । अग्निर्धुलोकः, 'असौ वाव लोको गौतमाग्निः' इति श्रुतेः । विवृता वेदाः वागित्यन्वयः । पद्भ्यां पादावित्यर्थः । यस्येदं रूपं स एष सर्वप्राणिनामन्तरात्मेत्यर्थः ।
तनुमहिम्न इति ।
अल्पशक्तेरित्यर्थः ।
यथा कश्चिब्रह्मवित्स्वस्य सर्वात्मत्वप्रकटनार्थमहमन्नमिति साम गायति न त्वन्नत्वादिकमात्मनो विवक्षति, अफलत्वात् , तथेहापीत्याह
अहमन्नमिति ।