ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः द्वितीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
रूपोपन्यासाच्च ॥ २३ ॥
अन्ये पुनर्मन्यन्तेनायं भूतयोनेः रूपोपन्यासः, जायमानत्वेनोपन्यासात् । ‘एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणीइति हि पूर्वत्र प्राणादि पृथिव्यन्तं तत्त्वजातं जायमानत्वेन निरदिक्षत्उत्तरत्रापि तस्मादग्निः समिधो यस्य सूर्यःइत्येवमादिअतश्च सर्वा ओषधयो रसश्चइत्येवमन्तं जायमानत्वेनैव निर्देक्ष्यतिइहैव कथमकस्मादन्तराले भूतयोनेः रूपमुपन्यसेत् ? सर्वात्मत्वमपि सृष्टिं परिसमाप्योपदेक्ष्यतिपुरुष एवेदं विश्वं कर्म’ (मु. उ. २ । १ । १०) इत्यादिनाश्रुतिस्मृत्योश्च त्रैलोक्यशरीरस्य प्रजापतेर्जन्मादि निर्दिश्यमानमुपलभामहेहिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम’ (ऋ. सं. १० । १२१ । १) इति; समवर्ततेति अजायतेत्यर्थःतथा, ‘ वै शरीरी प्रथमः वै पुरुष उच्यतेआदिकर्ता भूतानां ब्रह्माग्रे समवर्ततइति विकारपुरुषस्यापि सर्वभूतान्तरात्मत्वं सम्भवति, प्राणात्मना सर्वभूतानामध्यात्ममवस्थानात्अस्मिन्पक्षेपुरुष एवेदं विश्वं कर्मइत्यादिसर्वरूपोपन्यासः परमेश्वरप्रतिपत्तिहेतुरिति व्याख्येयम् ॥ २३ ॥

वृत्तिकृद्व्याख्यां दूषयति

अन्ये पुनरिति ।

एष सर्वभूतान्तरात्मा सूत्रात्मा एतस्माद्भूतयोनेर्जायत इति श्रुत्यन्वयेन हिरण्यगर्भस्यात्र जायमानत्वेनोपन्यासादित्यर्थः । निरदिक्षदवोचदित्यर्थः । अग्निर्द्युलोको यस्य, यस्य समिद्रूपः सूर्यः सोऽपिद्युलोकाग्निस्तस्मादजायतेत्यर्थः । 'तस्मादित्य एव समित्' इति श्रुत्यन्तरात् । अतो मध्येऽपि सृष्टिरेव वाच्या न रूपमिति भावः ।

यदुक्तम् 'अग्निर्मूर्धा' इत्यत्र भूतयोनेः सर्वात्मत्वं विवक्षितमिति, तत्रेत्याह

सर्वात्मत्वमपीति ।

ननु हिरण्यगर्भस्य जन्मान्यत्रानुक्तं कथमत्र वक्तव्यम् , तत्राह

श्रुतीति ।

अग्रे समवर्तत जातः सन्भूतग्रामस्यैकः पतिरीश्वरप्रसादादभवत् । स सूत्रात्मा द्यामिमां पृथिवीं च स्थूलं सर्वमधारयत् । कशब्दस्य प्रजापतिसंज्ञात्वे सर्वनामत्वाभावेन स्मा इत्ययोगादेकारलोपेनैकस्मै देवाय प्राणात्मने हविषा विधेम परिचरेमेति व्याख्येयम् , 'कतम एको देव इति प्राणः' इति श्रुतेः । यद्वा यस्मादयं जातस्तस्मा एकस्मै देवायेत्यर्थः, 'एको देवः सर्वभूतेषु गूढः' इति श्रुत्यन्तरात् ।

ननु तस्य भूतान्तरात्मत्वं कथम् , तत्राह

विकारेति ।

पूर्वकल्पे प्रकृष्टोपासनाकर्मसमुच्चयानुष्ठानदस्मिन्कल्पे सर्वप्राणिव्यष्टिलिङ्गानां व्यापकं सर्वप्राण्यन्तर्गतं ज्ञानकर्मेन्द्रियप्राणात्मकं समष्टिलिङ्गशरीरं जायते तद्रूपस्य सूत्रात्मनः सर्वभूतान्तरात्मत्वं युक्तमित्यर्थः ।

स्वपक्षे सूत्रार्थमाह

अस्मिन्पक्ष इति ।

कर्म सफलं सर्वं श्रौतस्मार्तादिकं तपश्च पुरुष एवेति सर्वान्तरत्वरूपोपन्यासाच्च भूतयोनौ ज्ञेये वाक्यं समन्वितमित्यर्थः ॥ २३ ॥