वैश्वानरः । छान्दोग्यमुदाहरति
को न इति ।
प्राचीनशालसत्ययज्ञेन्द्रद्युम्नजनबुडिला मिलित्वा मीमांसां चक्रुः 'को न आत्मा किं ब्रह्म' इति । आत्मैव ब्रह्मेति ज्ञापनार्थं पदद्वयम् ।
ते पञ्चापि निश्चयार्थमुद्दालकमाजग्मुः । सोऽपि सम्यङ्न वेदेति तेनोद्दालकेन सह षडप्यश्वपतिं कैकेयं राजानमागत्योचुः
आत्मानमिति ।
अध्येषि स्मरसि तमेव नो ब्रूहीति । राजा तु तेषां भ्रान्तिनिरासार्थं तान्प्रत्येकमपृच्छत् 'कं त्वमात्मानमुपाःसे' इति । ते च प्राचीनशालादयः क्रमेण प्रत्येकमूचुःदिवमेवाहं वैश्वानरं वेद्मि । आदित्यमेवाहं वेद्मि । वायुमेव । आकाशमेव । अप एव । पृथिवीमेवाहं वेद्मीति । ततो राजा द्युसूर्यादीनां षण्णां यथाक्रमेण सुतेजस्त्वविश्वरूपत्वपृथग्वर्त्मात्मत्वबहुलत्वरयित्वप्रतिष्ठात्वगुणान्विधाय भवन्तो यदि मामपृष्ट्वा द्युसूर्यादिषु भगवतो वैश्वानरस्याङ्गेष्वेव प्रत्येकं वैश्वानरत्वदृष्टयो भवेयुस्तदा क्रमेण मूर्धपातान्धत्वप्राणोत्क्रमणदेहविशीर्णत्वबस्तिभेदपादशोषा भवतां स्युरिति प्रत्येकोपासनं निन्दित्वा, सुतेजस्त्वगुणको द्युलोकोऽस्यात्मनो वैश्वानरस्य मूर्धा, विश्वरूपत्वगुणकः सूर्योऽस्य चक्षुरित्येवं द्युसूर्यादीनां मूर्धादिभावमुपदिश्य समस्तवैश्वानरध्यानविधिराम्नायते
यस्त्वेतमिति ।
आभिमुख्येनापरोक्षतया विश्वं मिमीते जानातीत्यभिविमानः । तं सर्वज्ञं स तदुपासकः सर्वत्र भोगं भुङ्क्त इत्यर्थः । लोका भूरादयः, भूतानि शरीराणि, आत्मानो जीवा इति भेदः ।
सुष्ठु तेजः कान्तिर्यस्य द्युलोकस्य स सुतेजाः । विश्वानि रूपाण्यस्य सूर्यस्य, 'एष शुक्ल एष नीलः' इति श्रुतेः । पृथक्नानाविधं वर्त्म गमनमात्मा स्वभावो यस्य वायोः स नानागतित्वगुणकोऽस्य प्राणः । बहुलत्वं व्यापित्वं तद्गुण आकाशोऽस्य सन्देहो देहमध्यम् । रयित्वं धनत्वं तद्गुणा आपो यस्य बस्तिर्मूत्रस्थानम् । प्रतिष्ठात्वगुणा पृथिवी तस्य पादौ । तस्य होमाधारत्वं सम्पादयति
उर एवेत्यादिना ।
पूर्वमुपक्रमस्थादृश्यत्वादिसाधारणधर्मस्य वाक्यशेषस्थसर्वज्ञत्वादिलिङ्गेन ब्रह्मनिष्ठत्वमुक्तम् , तद्वदत्राप्युपक्रमस्थसाधारणवैश्वानरशब्दस्य वाक्यशेषस्थहोमाधारत्वलिङ्गेन जाठरनिष्ठत्वमिति दृष्टान्तेन पूर्वपक्षयति
किन्तावदित्यादिना ।
पूर्वोत्तरपक्षयोर्जाठरब्रह्मणोर्ध्यानं फलम् । यदद्यते तदन्नम् , येन पच्यते सोऽयं पुरुषशरीरेऽन्तरस्तीत्यर्थः ।
पक्षान्तरमाह
अग्निमात्रं वेति ।
विश्वस्मै भुवनाय वैश्वानरमग्निमह्नां केतुं चिह्नं सूर्यं देवा अकृण्वन् कृतवन्तः । सूर्योदये दिनव्यवहारादित्यर्थः । स्याद्वैश्वानर इत्यनुषङ्गः । हि यस्मात्कं सुखप्रदो भुवनानां राजा वैश्वानरोऽभिमुखा श्रीरस्येत्यभिश्रीरीश्वरः, तस्मात्तस्य वैश्वानरस्य सुमतौ वयं स्याम तस्यास्मद्विषया शुभमतिर्भवत्वित्यर्थः ।
पक्षत्रयेऽप्यरुचिं वदन्कल्पान्तरमाह
अथेत्यादिना ।
'आत्मा वैश्वानरः' इति श्रुतेरित्यर्थः । केवलत्वं वैश्वानरशब्दशून्यत्वम् । अत्र जाठरो वैश्वानर इति मुख्यः पूर्वपक्षः, प्राणाग्निहोत्रहोमाधारत्वलिङ्गात् । तस्य देहव्यापित्वादात्मत्वं श्रुत्या द्युमूर्धत्वादिकल्पनया बृहत्त्वाद्ब्रह्मत्वमिति ध्येयम् ।