ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायःद्वितीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
शब्दादिभ्योऽन्तःप्रतिष्ठानाच्च नेति चेन्न तथादृष्ट्युपदेशादसम्भवात्पुरुषमपि चैनमधीयते ॥ २६॥
अत्राह — न परमेश्वरो वैश्वानरो भवितुमर्हति । कुतः ? शब्दादिभ्योऽन्तःप्रतिष्ठानाच्च । शब्दस्तावत् — वैश्वानरशब्दो न परमेश्वरे सम्भवति, अर्थान्तरे रूढत्वात् । तथाग्निशब्दः ‘स एषोऽग्निर्वैश्वानरः’ इति । आदिशब्दात् ‘हृदयं गार्हपत्यः’ (छा. उ. ५ । १८ । २) इत्याद्यग्नित्रेताप्रकल्पनम्; ‘तद्यद्भक्तं प्रथममागच्छेत्तद्धोमीयम्’ (छा. उ. ५ । १९ । १) इत्यादिना च प्राणाहुत्यधिकरणतासङ्कीर्तनम् । एतेभ्यो हेतुभ्यो जाठरो वैश्वानरः प्रत्येतव्यः । तथान्तःप्रतिष्ठानमपि श्रूयते — ‘पुरुषेऽन्तः प्रतिष्ठितं वेद’ इति । तच्च जाठरे सम्भवति । यदप्युक्तम् ‘मूर्धैव सुतेजाः’ इत्यादेर्विशेषात्कारणात्परमात्मा वैश्वानर इति, अत्र ब्रूमः — कुतो ह्येष निर्णयः, यदुभयथापि विशेषप्रतिभाने सति परमेश्वरविषय एव विशेष आश्रयणीयो न जाठरविषय इति । अथवा भूताग्नेरन्तर्बहिश्चावतिष्ठमानस्यैष निर्देशो भविष्यति । तस्यापि हि द्युलोकादिसम्बन्धो मन्त्रवर्णादवगम्यते — ‘यो भानुना पृथिवीं द्यामुतेमामाततान रोदसी अन्तरिक्षम्’ (ऋ. सं. १० । ८८ । ४) इत्यादौ । अथवा तच्छरीराया देवताया ऐश्वर्ययोगात् द्युलोकाद्यवयवत्वं भविष्यति । तस्मान्न परमेश्वरो वैश्वानर इति ॥

शब्दादीनां गतिं वक्तुमुक्तसिद्वान्तमाक्षिप्य समाधत्ते

शब्दादिभ्य इति ।

'स एषोऽग्निर्वैश्वानरः' इत्यग्निरहस्ये वैश्वानरविद्यायां श्रुतोऽग्निशब्द ईश्वरे न सम्भवतीत्यन्वयः ।

सूत्रस्थादिशब्दार्थमाह

आदिशब्दादिति ।

भक्तमन्नम् , होमीयं होमसाधनम् , तेन प्राणाग्निहोत्रं कार्यमित्यर्थः ।

वाजसनेयिनामग्निरहस्ये सप्रपञ्चां वैश्वानरविद्यामुक्त्वा 'स यो हैतमग्निं वैश्वानरं पुरुषविधं पुरुषेऽन्तःप्रतिष्ठितं वेद स सर्वत्रान्नमत्ति' इत्युक्तं देहान्तःस्थत्वं जाठरे सम्भवति, प्रसिद्धेरित्याह

तथेति ।

अत्र सूत्रे आदिपदेनैवान्तःप्रतिष्ठानस्य ग्रहे सम्भवति पृथगुक्तिः साधारणलिङ्गत्वद्योतनार्था । शब्दादिबलादिदमपि जाठरं गमयतीत्यभ्युच्चयः ।

यद्यपि द्युमूर्धत्वादिविशेष ईश्वरपक्षपाती होमाधारत्वादिर्जाठरपक्षपातीति प्रतिभानं समं तथापि पारमेश्वरो विशेषो जाठरे न सम्भवतीति बलवानित्यत आह

अथवेति ।

एष द्युमूर्धत्वादिनिर्देश इत्यर्थः । इमां पृथिवीं द्यामपि ते एव द्यावापृथिव्यौ रोदसी तथोर्मध्यमन्तरिक्षं च यो भूताग्निर्भानुरूपेणाततान व्याप्तवान् स ध्यातव्य इत्यर्थः ।

जडमात्रस्य न ध्येयत्वमित्यत आह

अथवेति ।