ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायःद्वितीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
शब्दादिभ्योऽन्तःप्रतिष्ठानाच्च नेति चेन्न तथादृष्ट्युपदेशादसम्भवात्पुरुषमपि चैनमधीयते ॥ २६॥
अत्रोच्यते — न तथादृष्ट्युपदेशादिति । न शब्दादिभ्यः कारणेभ्यः परमेश्वरस्य प्रत्याख्यानं युक्तम् । कुतः ? तथा जाठरापरित्यागेन, दृष्ट्युपदेशात् । परमेश्वरदृष्टिर्हि जाठरे वैश्वानरे इहोपदिश्यते — ‘मनो ब्रह्मेत्युपासीत’ (छा. उ. ३ । १८ । १) इत्यादिवत् । अथवा जाठरवैश्वानरोपाधिः परमेश्वर इह द्रष्टव्यत्वेनोपदिश्यते — ‘मनोमयः प्राणशरीरो भारूपः’ (छा. उ. ३ । १४ । २) इत्यादिवत् । यदि चेह परमेश्वरो न विवक्ष्येत, केवल एव जाठरोऽग्निर्विवक्ष्येत, ततः ‘मूर्धैव सुतेजाः’ इत्यादेर्विशेषस्यासम्भव एव स्यात् । यथा तु देवताभूताग्निव्यपाश्रयेणाप्ययं विशेष उपपादयितुं न शक्यते, तथोत्तरसूत्रे वक्ष्यामः । यदि च केवल एव जाठरो विवक्ष्येत, पुरुषेऽन्तःप्रतिष्ठितत्वं केवलं तस्य स्यात् । न तु पुरुषत्वम् । पुरुषमपि चैनमधीयते वाजसनेयिनः — ‘स एषोऽग्निर्वैश्वानरो यत्पुरुषः स यो हैतमेवमग्निं वैश्वानरं पुरुषं पुरुषेऽन्तः प्रतिष्ठितं वेद’ (श. ब्रा. १० । ६ । १ । ११) इति । परमेश्वरस्य तु सर्वात्मत्वात्पुरुषत्वं पुरुषेऽन्तःप्रतिष्ठितत्वं चोभयमुपपद्यते । ये तु ‘पुरुषविधमपि चैनमधीयते’ इति सूत्रावयवं पठन्ति, तेषामेषोऽर्थः — केवलजाठरपरिग्रहे पुरुषेऽन्तःप्रतिष्ठितत्वं केवलं स्यात् । न तु पुरुषविधत्वम् । पुरुषविधमपि चैनमधीयते वाजसनेयिनः — ‘पुरुषविधं पुरुषेऽन्तः प्रतिष्ठितं वेद’ इति । पुरुषविधत्वं च प्रकरणात् यदधिदैवतं द्युमूर्धत्वादि पृथिवीप्रतिष्ठितत्वान्तम् , यच्चाध्यात्मं प्रसिद्धं मूर्धत्वादि चुबुकप्रतिष्ठितत्वान्तम् , तत्परिगृह्यते ॥ २६ ॥

सिद्धान्तयति

न तथादृष्ट्युपदेशादितीति ।

परमेश्वरदृष्ट्योपास्यजाठराग्निप्रतीकवाचकाभ्यामग्निवैश्वानरशब्दाभ्यां द्युमूर्धत्वादिमानीश्वरो लक्ष्य इत्युक्त्वा कल्पान्तरमाह

अथवा जाठरेति ।

अस्मिन्पक्षे प्राधान्येनेश्वरोपास्यता पूर्वत्र गुणतयेति भेदः । उपाधिवाचिभ्यां पदाभ्यामुपहितो लक्ष्य इत्यर्थः ।

लक्षणाबीजमसम्भवं व्याचष्टे

यदि चेति ।

पुरुषमपीत्यादिसूत्रशेषं व्याचष्टे

यदि च केवल इति ।

ईश्वरप्रतीकत्वोपाधित्वशून्यैत्यर्थो विवक्ष्येत तदेति शेषः । यत्यः, पुरुषः, स एषोऽग्निर्वैश्वानरशब्दितजाठरोपाधिक इति श्रुत्यर्थः । यो वेद स सर्वत्र भुङ्क्त इत्यर्थः ।

पुरुषत्वं पूर्णत्वमचेतनस्य जाठरस्य नेत्युक्त्वा पाठान्तरे पुरुषविधत्वं देहाकारत्वं तस्य नेत्याह

ये त्विति ।

ननु जाठरस्यापि देहव्यापित्वात्तद्विधत्वं स्यादित्यत आह

पुरुषविधत्वं च प्रकरणादिति ।

न देहव्यापित्वं पुरुषविधत्वं किन्तु विराड्देहाकारत्वम् , अधिदैवं पुरुषविधत्वमध्यात्मं चोपासकमूर्धादिचुबुकान्तेष्वङ्गेषु सम्पन्नत्वमीश्वरस्य पुरुषविधत्वमित्यर्थः ॥ २६ ॥