शब्दादीनां गतिं वक्तुमुक्तसिद्वान्तमाक्षिप्य समाधत्ते
शब्दादिभ्य इति ।
'स एषोऽग्निर्वैश्वानरः' इत्यग्निरहस्ये वैश्वानरविद्यायां श्रुतोऽग्निशब्द ईश्वरे न सम्भवतीत्यन्वयः ।
सूत्रस्थादिशब्दार्थमाह
आदिशब्दादिति ।
भक्तमन्नम् , होमीयं होमसाधनम् , तेन प्राणाग्निहोत्रं कार्यमित्यर्थः ।
वाजसनेयिनामग्निरहस्ये सप्रपञ्चां वैश्वानरविद्यामुक्त्वा 'स यो हैतमग्निं वैश्वानरं पुरुषविधं पुरुषेऽन्तःप्रतिष्ठितं वेद स सर्वत्रान्नमत्ति' इत्युक्तं देहान्तःस्थत्वं जाठरे सम्भवति, प्रसिद्धेरित्याह
तथेति ।
अत्र सूत्रे आदिपदेनैवान्तःप्रतिष्ठानस्य ग्रहे सम्भवति पृथगुक्तिः साधारणलिङ्गत्वद्योतनार्था । शब्दादिबलादिदमपि जाठरं गमयतीत्यभ्युच्चयः ।
यद्यपि द्युमूर्धत्वादिविशेष ईश्वरपक्षपाती होमाधारत्वादिर्जाठरपक्षपातीति प्रतिभानं समं तथापि पारमेश्वरो विशेषो जाठरे न सम्भवतीति बलवानित्यत आह
अथवेति ।
एष द्युमूर्धत्वादिनिर्देश इत्यर्थः । इमां पृथिवीं द्यामपि ते एव द्यावापृथिव्यौ रोदसी तथोर्मध्यमन्तरिक्षं च यो भूताग्निर्भानुरूपेणाततान व्याप्तवान् स ध्यातव्य इत्यर्थः ।
जडमात्रस्य न ध्येयत्वमित्यत आह
अथवेति ।