ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः द्वितीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
अभिव्यक्तेरित्याश्मरथ्यः ॥ २९ ॥
अतिमात्रस्यापि परमेश्वरस्य प्रादेशमात्रत्वमभिव्यक्तिनिमित्तं स्यात्अभिव्यज्यते किल प्रादेशमात्रपरिमाणः परमेश्वर उपासकानां कृतेप्रदेशविशेषेषु वा हृदयादिषूपलब्धिस्थानेषु विशेषेणाभिव्यज्यतेअतः परमेश्वरेऽपि प्रादेशमात्रश्रुतिरभिव्यक्तेरुपपद्यत इत्याश्मरथ्य आचार्यो मन्यते ॥ २९ ॥

मात्रां परिमाणमतिक्रान्तोऽतिमात्रः तस्य विभोरित्यर्थः । उपासकानां कृतेऽनुग्रहाय प्रादेशमात्रोऽभिव्यज्यते, प्रदेशेषु वा मीयतेऽभिव्यज्यत इति प्रादेशमात्रः ॥ २९ ॥