पूर्वमग्निवैश्वानरशब्दावीश्वरलक्षकावित्युक्तम् । अधुना प्रतीकोपाधिपरित्यागेन विराट्पुरुषाकारस्य भगवतो वैश्वानरस्याध्यात्मं मूर्धादिचुबुकान्तेषु सम्पाद्योपास्यत्वाङ्गीकारेऽपि न शब्दादिविरोधः शब्दयोरीश्वरे योगवृत्त्या मुख्यत्वात् , अन्तःस्थत्वादीनां च तत्र सम्भवादित्याह
साक्षादपीति ।
साक्षात्पदस्यार्थमाह
विनैवेति ।
जाठराग्निसम्बन्धं विनेश्वरस्योपास्यत्वेऽपि शब्दाद्यविरोधं जैमिनिर्मन्यत इत्यर्थः । इदमन्तस्थत्वमुदरस्थत्वरूपं नोच्यते किन्तु नखादिशिखान्तावयवसमुदायात्मकपुरुषशरीरे मूर्धादिचिबुकान्ताङ्गानि वृक्षे शाखावत्प्रतिष्ठितानि, तेषु सम्पन्नो वैश्वानरः पुरुषेऽन्तःप्रतिष्ठित इत्युच्यते ।
अतो यथा शाखास्थस्य पक्षिणो वृक्षान्तःस्थत्वं तथा वैश्वानरस्य पुरुषान्तःस्थत्वमित्याह
न हीह पुरुषविधमित्यादिना ।
अग्न्यादिशब्दस्येश्वरवाचित्वाज्जाठराग्नेरसंशब्दितत्वम् । अत्रेश्वरस्य पुरुषावयवेषु सम्पादनात्पुरुषविधत्वमन्तःस्थत्वं चेत्यर्थः ।
पक्षान्तरमाह
अथवेति ।
पुरुषविधत्वं पूर्ववत् । अन्तःस्थत्वं माध्यस्थ्यं साक्षित्वमित्यर्थः ।
एवमन्तःस्थत्वमीश्वरे व्याख्याय शब्दादीनि व्याचष्टे
निश्चिते चेति ।
विश्वश्चायं नरो जीवश्च सर्वात्मत्वात् । विश्वेषां विकाराणां वा नरः कर्ता । विश्वे सर्वे नरा जीवा अस्यात्मत्वेन नियम्यत्वेन वा सन्तीति विश्वानरः । रक्ष एव राक्षस इतिवत्स्वार्थे तद्धितप्रत्ययः । 'नरे संज्ञायां' इति पूर्वपदस्य दीर्घता । अगिधातोर्गत्यर्थस्य निप्रत्ययान्तस्य रूपमग्निरिति । अङ्गयति गमयत्यग्रं कर्मणः फलं प्रापयतीति अग्निरग्रणीरुक्तः । अभितोऽग इति वा अग्निः ।
वैश्वानरोपासकस्यातिथिभोजनात्पूर्वं प्राणाग्निहोत्रं विद्याङ्गत्वेन विहितम् , तदर्थमग्नित्रेतादिकल्पनं प्रधानाविरोधेन नेतव्यमित्याह
गार्हपत्येति ॥ २८ ॥