ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः द्वितीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
अत एव न देवता भूतं च ॥ २७ ॥
यत्पुनरुक्तम्भूताग्नेरपि मन्त्रवर्णे द्युलोकादिसम्बन्धदर्शनात्मूर्धैव सुतेजाःइत्याद्यवयवकल्पनं तस्यैव भविष्यतीति, तच्छरीराया देवताया वा ऐश्वर्ययोगादिति; तत्परिहर्तव्यम्अत्रोच्यतेअत एवोक्तेभ्यो हेतुभ्यो देवता वैश्वानरःतथा भूताग्निरपि वैश्वानरः हि भूताग्नेरौष्ण्यप्रकाशमात्रात्मकस्य द्युमूर्धत्वादिकल्पनोपपद्यते, विकारस्य विकारान्तरात्मत्वासम्भवात्तथा देवतायाः सत्यप्यैश्वर्ययोगे द्युमूर्धत्वादिकल्पना सम्भवति, अकारणत्वात् परमेश्वराधीनैश्वर्यत्वाच्चआत्मशब्दासम्भवश्च सर्वेष्वेषु पक्षेषु स्थित एव ॥ २७ ॥

ईश्वरस्याङ्गेषु सम्पत्तिर्वक्ष्यते । एवं जाठरं निरस्य पक्षद्वयं निरस्यति

अत एवेति ।

सूत्रं व्याचष्टे

यत्पुनरित्यादिना ।

द्युमूर्धत्वादिः, सर्वलोकफलभाक्त्वम् , सर्वपाप्मप्रदाहः, आत्मब्रह्मशब्दोपक्रम उक्तहेतवः ।

तानेव स्मारयति

न हि भूताग्नेरित्यादिना ।

'यो भानुना' इति मन्त्रेणेश्वरदृष्ट्या महिमोक्त इति भावः ॥ २७ ॥