ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः द्वितीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
शब्दादिभ्योऽन्तःप्रतिष्ठानाच्च नेति चेन्न तथादृष्ट्युपदेशादसम्भवात्पुरुषमपि चैनमधीयते ॥ २६॥
अत्रोच्यते तथादृष्ट्युपदेशादिति शब्दादिभ्यः कारणेभ्यः परमेश्वरस्य प्रत्याख्यानं युक्तम्कुतः ? तथा जाठरापरित्यागेन, दृष्ट्युपदेशात्परमेश्वरदृष्टिर्हि जाठरे वैश्वानरे इहोपदिश्यतेमनो ब्रह्मेत्युपासीत’ (छा. उ. ३ । १८ । १) इत्यादिवत्अथवा जाठरवैश्वानरोपाधिः परमेश्वर इह द्रष्टव्यत्वेनोपदिश्यतेमनोमयः प्राणशरीरो भारूपः’ (छा. उ. ३ । १४ । २) इत्यादिवत्यदि चे परमेश्वरो विवक्ष्येत, केवल एव जाठरोऽग्निर्विवक्ष्येत, ततःमूर्धैव सुतेजाःइत्यादेर्विशेषस्यासम्भव एव स्यात्यथा तु देवताभूताग्निव्यपाश्रयेणाप्ययं विशेष उपपादयितुं शक्यते, तथोत्तरसूत्रे वक्ष्यामःयदि केवल एव जाठरो विवक्ष्येत, पुरुषेऽन्तःप्रतिष्ठितत्वं केवलं तस्य स्यात् तु पुरुषत्वम्पुरुषमपि चैनमधीयते वाजसनेयिनः एषोऽग्निर्वैश्वानरो यत्पुरुषः यो हैतमेवमग्निं वैश्वानरं पुरुषं पुरुषेऽन्तः प्रतिष्ठितं वेद’ (श. ब्रा. १० । ६ । १ । ११) इतिपरमेश्वरस्य तु सर्वात्मत्वात्पुरुषत्वं पुरुषेऽन्तःप्रतिष्ठितत्वं चोभयमुपपद्यतेये तुपुरुषविधमपि चैनमधीयतेइति सूत्रावयवं पठन्ति, तेषामेषोऽर्थःकेवलजाठरपरिग्रहे पुरुषेऽन्तःप्रतिष्ठितत्वं केवलं स्यात् तु पुरुषविधत्वम्पुरुषविधमपि चैनमधीयते वाजसनेयिनः — ‘पुरुषविधं पुरुषेऽन्तः प्रतिष्ठितं वेदइतिपुरुषविधत्वं प्रकरणात् यदधिदैवतं द्युमूर्धत्वादि पृथिवीप्रतिष्ठितत्वान्तम् , यच्चाध्यात्मं प्रसिद्धं मूर्धत्वादि चुबुकप्रतिष्ठितत्वान्तम् , तत्परिगृह्यते ॥ २६ ॥

सिद्धान्तयति

न तथादृष्ट्युपदेशादितीति ।

परमेश्वरदृष्ट्योपास्यजाठराग्निप्रतीकवाचकाभ्यामग्निवैश्वानरशब्दाभ्यां द्युमूर्धत्वादिमानीश्वरो लक्ष्य इत्युक्त्वा कल्पान्तरमाह

अथवा जाठरेति ।

अस्मिन्पक्षे प्राधान्येनेश्वरोपास्यता पूर्वत्र गुणतयेति भेदः । उपाधिवाचिभ्यां पदाभ्यामुपहितो लक्ष्य इत्यर्थः ।

लक्षणाबीजमसम्भवं व्याचष्टे

यदि चेति ।

पुरुषमपीत्यादिसूत्रशेषं व्याचष्टे

यदि च केवल इति ।

ईश्वरप्रतीकत्वोपाधित्वशून्यैत्यर्थो विवक्ष्येत तदेति शेषः । यत्यः, पुरुषः, स एषोऽग्निर्वैश्वानरशब्दितजाठरोपाधिक इति श्रुत्यर्थः । यो वेद स सर्वत्र भुङ्क्त इत्यर्थः ।

पुरुषत्वं पूर्णत्वमचेतनस्य जाठरस्य नेत्युक्त्वा पाठान्तरे पुरुषविधत्वं देहाकारत्वं तस्य नेत्याह

ये त्विति ।

ननु जाठरस्यापि देहव्यापित्वात्तद्विधत्वं स्यादित्यत आह

पुरुषविधत्वं च प्रकरणादिति ।

न देहव्यापित्वं पुरुषविधत्वं किन्तु विराड्देहाकारत्वम् , अधिदैवं पुरुषविधत्वमध्यात्मं चोपासकमूर्धादिचुबुकान्तेष्वङ्गेषु सम्पन्नत्वमीश्वरस्य पुरुषविधत्वमित्यर्थः ॥ २६ ॥