ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः द्वितीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
आमनन्ति चैनमस्मिन् ॥ ३२ ॥
आमनन्ति चैनं परमेश्वरमस्मिन्मूर्धचुबुकान्तराले जाबालाः — ‘ एषोऽनन्तोऽव्यक्त आत्मा सोऽविमुक्ते प्रतिष्ठित इतिसोऽविमुक्तः कस्मिन्प्रतिष्ठित इतिवरणायां नास्यां मध्ये प्रतिष्ठित इतिका वै वरणा का नासीति’ । तत्र चेमामेव नासिकाम्सर्वाणीन्द्रियकृतानि पापानि वारयतीति सा वरणा, सर्वाणीन्द्रियकृतानि पापानि नाशयतीति सा नासीइति वरणानासीति निरुच्य, पुनरप्यामनन्तिकतमच्चास्य स्थानं भवतीतिभ्रुवोर्घ्राणस्य यः सन्धिः एष द्युलोकस्य परस्य सन्धिर्भवति’ (जा. उ. २) इतितस्मादुपपन्ना परमेश्वरे प्रादेशमात्रश्रुतिःअभिविमानश्रुतिः प्रत्यगात्मत्वाभिप्रायाप्रत्यगात्मतया सर्वैः प्राणिभिरभिविमीयत इत्यभिविमानःअभिगतो वायं प्रत्यगात्मत्वात् , विमानश्च मानवियोगात् इत्यभिविमानःअभिविमिमीते वा सर्वं जगत् , कारणत्वादित्यभिविमानःतस्मात्परमेश्वरो वैश्वानर इति सिद्धम् ॥ ३२ ॥

प्रादेशत्वस्य सम्पत्तिप्रयुक्तत्वे श्रुत्यन्तरं संवादयति

आमनन्तीति ।

य एषोऽनन्तोऽपरिच्छिन्नः अतोऽव्यक्तो दुर्विज्ञेयस्तं कथं जानीयामित्यत्रेः प्रश्ने याज्ञवल्क्यस्योत्तरम् , स ईश्वरोऽविमुक्ते कामादिभिर्बद्धे जीवे भेदकल्पनया प्रतिष्ठित उपास्यः । पुनरत्रिप्रश्नः स इति, उत्तरं वरणायामिति । एवं प्रश्नोत्तरे अग्रेऽपि ज्ञेये । तत्र च श्रुतौ इमामेव भ्रूसहितां नासिकां निरुच्येति भाष्ययोजना । सर्वानिन्द्रयकृतान्दोषान्वारयतीति वरणा भ्रूः, सर्वान्दोषान्नाशयतीति नासी नासिकेति निर्वचनं श्रुतम् । नासाभ्रुवोर्जीवद्वारेश्वरस्थानत्वध्यानात्पापवारकत्वमिति मन्तव्यम् । तयोर्मध्येऽपि विशिष्य जीवस्य स्थानं पृच्छति कतमदिति, भ्रुवोरित्युत्तरम् । प्राणस्येति पाठेऽपि घ्राणस्येत्यर्थः ।

स एष सन्धिर्द्युलोकस्य स्वर्गस्य परस्य च ब्रह्मलोकस्य सन्धित्वेन ध्येय इत्याह

स एष इति ।

आभिमुख्येनाहं ब्रह्मेति विमीयते ज्ञायते इत्यभिविमानः प्रत्यगात्मा । अभिगतश्चासौ विमानश्च, सर्वस्वरूपत्वे सत्यानन्त्यात् । मानमत्र परिमाणम् । अभिविमिमीते निर्मिमीते । तस्माद्वैश्वानरवाक्यमुपास्ये ब्रह्मणि समन्वितमिति सिद्धम् ॥ ३२ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीगोविन्दानन्दभगवत्पादकृतौ श्रीमच्छारीरकमीमांसाव्याख्यायां भाष्यरत्नप्रभायां प्रथमाध्यायस्य द्वितीयः पादः ॥ २ ॥