द्युभ्वोतभूमपदमक्षरमीक्षणीयं श्रीराममल्पह्रदि भान्तमधीशितारम् । इन्द्रादिवेद्यमखिलस्य च शासितारं ज्योतिर्नभः पदमनिद्रमजं भजेऽहम् ॥ १ ॥
एवं रूढिपदबहुलानां प्रायेण सविशेषवाक्यानां समन्वयो द्वितीयपादे दर्शितः । अधुना यौगिकपदबहुलानां निर्विशेषप्रधानानां वाक्यानां समन्वयं वक्तुं तृतीयः पाद आरभ्यते । अतोऽत्राधिकरणानां श्रुत्यध्यायपादसङ्गतयः । तत्र पूर्वमुपक्रमस्थसाधारणशब्दस्य वाक्यशेषस्थद्युमूर्धत्वादिना ब्रह्मपरत्वमुक्तम् , तद्वदत्राप्युपक्रमस्थसाधारणायतनत्वस्य वाक्यशेषस्थसेतुश्रुत्या वस्तुतः परिच्छिन्ने प्रधानादौ व्यवस्थेति दृष्टान्तलक्षणाधिकरणसङ्गतिः । पूर्वपक्षे प्रधानाद्युपास्तिः, सिद्वान्ते निर्विशेषब्रह्मधीरिति फलम् । मुण्डकवाक्यमुदाहरति
इदमिति ।
यस्मिन् लोकत्रयात्मा विराट् , प्राणैः सर्वैः सह मनः सूत्रात्मकम् , चकारादव्याकृतं कारणमोतं कल्पितं तदपवादेन तमेवाधिष्ठानात्मानं प्रत्यगभिन्नं जानथ श्रवणादिना । अन्या अनात्मवाचो विमुञ्चथ विशेषेण निःशेषं त्यजथ । एष वाग्विमोकपूर्वकात्मसाक्षात्कारोऽमृतस्य मोक्षस्यासारापारदुर्वारसंसारवारिधेः परपारस्य सेतुरिव सेतुः प्रापक इति मातृवच्छ्रुतिर्मुमुक्षूनुपदिशति ।
तत्रायतनत्वस्य साधारणधर्मस्य दर्शनात्संशयमाह
तत्किमिति ।
अमृतस्य ब्रह्मणः सेतुरिति षष्ठ्या ब्रह्मणो भिन्नत्वेन सेतोः श्रुतत्वादेषशब्दपरामृष्टं द्युभ्वाद्यायतनमब्रह्मैव सेतुरिव सेतुरित्याह
अमृतस्येति ।
भेदश्रवणात्सेतुरिति श्रवणच्चेत्यर्थः ।
तत्र भेदश्रवणं व्याख्यातम् । सेतुश्रवणं स्वयं विवृणोति
पारवानिति ।
अनन्तं कालतः । अपारं देशतः । जलविधारकमुख्यसेतोर्ग्रहणासम्भवाद्गौणसेतुग्रहे कर्तव्ये मुख्यसेत्वविनाभूतपारवत्त्वगुणवानेव कश्चिद्ग्राह्यः । नतु मुख्यस्यानियतविधारणगुणवानीश्वर इति भावः । यथा लोके मणयः सूत्रेण ग्रथिता एवं हे गौतम, समष्टिलिङ्गात्मकवायुना स्थूलानि सर्वाणि सन्दृब्धानि ग्रथितानि भवन्तीति श्रुत्यर्थः ।