ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
द्युभ्वाद्यायतनं स्वशब्दात् ॥ १ ॥
द्युभ्वाद्यायतनमितिद्यौश्च भूश्च द्युभुवौ, द्युभुवौ आदी यस्य तदिदं द्युभ्वादियदेतदस्मिन्वाक्ये द्यौः पृथिव्यन्तरिक्षं मनः प्राणा इत्येवमात्मकं जगत् ओतत्वेन निर्दिष्टम् , तस्यायतनं परं ब्रह्म भवितुमर्हतिकुतः ? स्वशब्दात् आत्मशब्दादित्यर्थःआत्मशब्दो हीह भवति — ‘तमेवैकं जानथ आत्मानम्इतिआत्मशब्दश्च परमात्मपरिग्रहे सम्यगवकल्पते, नार्थान्तरपरिग्रहेक्वचिच्च स्वशब्देनैव ब्रह्मण आयतनत्वं श्रूयतेसन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठाः’ (छा. उ. ६ । ८ । ४) इतिस्वशब्देनैव चेह पुरस्तादुपरिष्टाच्च ब्रह्म सङ्कीर्त्यते — ‘पुरुष एवेदं विश्वं कर्म तपो ब्रह्म परामृतम्इति, ब्रह्मैवेदममृतं पुरस्ताद्ब्रह्म पश्चाद्ब्रह्म दक्षिणतश्चोत्तरेण’ (मु. उ. २ । २ । १२) इति तत्र त्वायतनायतनवद्भावश्रवणात् सर्वं ब्रह्मेति सामानाधिकरण्यात् , यथानेकात्मको वृक्षः शाखा स्कन्धो मूलं चेति, एवं नानारसो विचित्र आत्मेत्याशङ्का सम्भवतितां निवर्तयितुं सावधारणमाह — ‘तमेवैकं जानथ आत्मानम्इतिएतदुक्तं भवति कार्यप्रपञ्चविशिष्टो विचित्र आत्मा विज्ञेयःकिं तर्हि ? अविद्याकृतं कार्यप्रपञ्चं विद्यया प्रविलापयन्तः तमेवैकमायतनभूतमात्मानं जानथ एकरसमितियथायस्मिन्नास्ते देवदत्तस्तदानयइत्युक्ते आसनमेवानयति, देवदत्तम्तद्वदायतनभूतस्यैवैकरसस्यात्मनो विज्ञेयत्वमुपदिश्यतेविकारानृताभिसन्धस्य चापवादः श्रूयतेमृत्योः मृत्युमाप्नोति इह नानेव पश्यति’ (क. उ. २ । १ । १०) इति । ‘सर्वं ब्रह्मइति तु सामानाधिकरण्यं प्रपञ्चप्रविलापनार्थम् , अनेकरसताप्रतिपादनार्थम् , यथा सैन्धवघनोऽनन्तरोऽबाह्यः कृत्स्नो रसघन एवैवं वा अरेऽयमात्मानन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघन एव’ (बृ. उ. ४ । ५ । १३) इत्येकरसताश्रवणात्तस्माद्द्युभ्वाद्यायतनं परं ब्रह्मयत्तूक्तम्सेतुश्रुतेः, सेतोश्च पारवत्त्वोपपत्तेः, ब्रह्मणोऽर्थान्तरेण द्युभ्वाद्यायतनेन भवितव्यमिति, अत्रोच्यतेविधारणत्वमात्रमत्र सेतुश्रुत्या विवक्ष्यते, पारवत्त्वादि हि मृद्दारुमयो लोके सेतुर्दृष्ट इत्यत्रापि मृद्दारुमय एव सेतुरभ्युपगम्यतेसेतुशब्दार्थोऽपि विधारणत्वमात्रमेव, पारवत्त्वादि, षिञो बन्धनकर्मणः सेतुशब्दव्युत्पत्तेःअपर आह — ‘तमेवैकं जानथ आत्मानम्इति यदेतत्सङ्कीर्तितमात्मज्ञानम् , यच्चैतत्अन्या वाचो विमुञ्चथइति वाग्विमोचनम् , तत् अत्र अमृतत्वसाधनत्वात् , ‘अमृतस्यैष सेतुःइति सेतुश्रुत्या सङ्कीर्त्यते तु द्युभ्वाद्यायतनम्तत्र यदुक्तम्सेतुश्रुतेर्ब्रह्मणोऽर्थान्तरेण द्युभ्वाद्यायतनेन भाव्यमिति, एतदयुक्तम् ॥ १ ॥

आत्मशब्दात्पक्षद्वयमप्ययुक्तमित्यत आह

शारीरो वेति ।

सद्वितीयत्वेन सेतुशब्दोपपत्तेश्चेत्यर्थः ।

नन्वात्मशब्दो जीवे सम्भवतीत्यत आह

आत्मशब्दश्चेति ।

उपाधिपरिच्छिन्नस्य जीवस्य सर्ववस्तु प्रत्येकं मुख्यं नास्तीत्यर्थः । उपक्रमस्थसाधारणायतनस्य गौणसेतुत्वलिङ्गात्प्रथमश्रुतात्मश्रुत्या ब्रह्मनिश्चय इति भावः ।

स्वशब्दादित्यस्यार्थान्तरमाह

क्वचिच्चेति ।

प्रजानामुत्पत्तौ सदेव मूलम् , स्थितावायतनम् , लये प्रतिष्ठेति ब्रह्मवाचिसत्पदेन छान्दोग्ये ब्रह्मण आयतनत्वश्रुतेरत्रापि तथेत्यर्थः ।

अर्थान्तरमाह

स्वशब्देनैवेति ।

'यस्मिन् द्यौः' इति वाक्यात्पूर्वोत्तरवाक्ययोः पुरुषब्रह्मादिशब्देन ब्रह्मसङ्कीर्तनान्मध्येऽपि ब्रह्म ग्राह्यमित्यर्थः । पुरुष इति पूर्ववाक्यम् , ब्रह्मैवेत्युत्तरवाक्यम् , सर्वासु दिक्षु स्थितं सर्वं ब्रह्मैवेत्यर्थः । उत्तरेणोत्तरस्यां दिशि ।

उदाहृतवाक्यस्य सविशेषब्रह्मपरत्वमाशङ्क्य वाक्यं व्याचष्टे

तत्रेत्यादिना ।

सामानाधिकरण्याद्विचित्र आत्मेति सम्बन्धः ।

यस्मिन् सर्वमोतं तमेवैकमित्येवकारैकशब्दाभ्यां निर्विशेषं ज्ञेयमित्युक्त्वा हेत्वन्तरमाह

विकारानृतेति ।

विकारेऽनृते कल्पिते अभिसन्धोऽभिमानो यस्य तस्यानर्थभाक्त्वेन निन्दाश्रुतेश्च कूटस्थसत्यं ज्ञेयमित्यर्थः ।

कथं तर्हि सामानाधिकरण्यम् , तत्राह

सर्वं ब्रह्मेति ।

यश्चोरः स स्थाणुरितिवत्यत्सर्वं तद्ब्रह्मेति सर्वोद्देशेन ब्रह्मत्वविधानाद्बाधनार्थम् , न तु यद्ब्रह्म तत्सर्वमिति नानारसत्वार्थमित्यर्थः ।

तत्र नियामकमाह

स यथेति ।

लवणपिण्डोऽन्तर्बहिश्च रसान्तरशून्यः सर्वो लवणैकरसो यथा, एवमरे मैत्रेयि, चिदेकरस आत्मेत्यर्थः ।

यद्यपि पारवत्त्वसावयवत्वादिकं मुख्यसेत्वव्यभिचारि तथापि सेतोर्जलादिबन्धनरूपं यद्विधारणं तदेव व्यभिचारित्वेऽपि सेतुपदार्थैकदेशत्वाद्गुणत्वेन ग्राह्यं नतु पदार्थबहिर्भूतं पारवत्त्वादिकमित्याह

अत्रोच्यत इति ।

दृष्टत्वात्तद्ग्रहेऽतिप्रसङ्गमाह

नहीति ।

अत्र श्रुतौ परेणेति शेषः ।

विधारणस्य शब्दार्थत्वं स्फुटयति

षिञिति ।

सिनोति बध्नातीति सेतुपदार्थैकदेशो विधारणमित्यर्थः । तथा चामृतपदस्य भावप्रधानत्वादमृतत्वस्य सेतुर्विधारकं ब्रह्म । अस्यैवामृतत्वं नान्यस्येत्यर्थः ।

यद्वा द्युभ्वाद्याधारो ब्रह्म न सेतुशब्दार्थः किन्त्वव्यवहितं ज्ञानमित्याह

अपर इति ।

फलितमाह

तत्र यदुक्तमिति ।

ज्ञाने सेतौ गृहीते सतीत्यर्थः ॥ १ ॥