ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
नानुमानमतच्छब्दात् ॥ ३ ॥
यथा ब्रह्मणः प्रतिपादको वैशेषिको हेतुरुक्तः, नैवमर्थान्तरस्य वैशेषिको हेतुः प्रतिपादकोऽस्तीत्याहनानुमानं साङ्ख्यस्मृतिपरिकल्पितं प्रधानम् इह द्युभ्वाद्यायतनत्वेन प्रतिपत्तव्यम्कस्मात् ? अतच्छब्दात्तस्याचेतनस्य प्रधानस्य प्रतिपादकः शब्दः तच्छब्दः, तच्छब्दः अतच्छब्दः ह्यत्राचेतनस्य प्रधानस्य प्रतिपादकः कश्चिच्छब्दोऽस्ति, येनाचेतनं प्रधानं कारणत्वेनायतनत्वेन वावगम्येततद्विपरीतस्य चेतनस्य प्रतिपादकशब्दोऽत्रास्तियः सर्वज्ञः सर्ववित्’ (मु. उ. १ । १ । ९) इत्यादिःअत एव वायुरपीह द्युभ्वाद्यायतनत्वेनाश्रीयते ॥ ३ ॥

वैशेषिक इति ।

असाधारण आत्मशब्दादिरित्यर्थः ।

अतच्छब्दादित्यस्यार्थान्तरमाह

तद्विपरीतस्येति ।

अत एवातच्छब्दादेव ॥ ३ ॥