प्राणभृच्चेति ।
सूत्रे चकारः पूर्वसूत्रस्थनञोऽनुषङ्गार्थः । सर्वज्ञपदसमानाधिकरणमात्मशब्दो न जीववाचीत्यतच्छब्दस्तस्मादित्यर्थः ।
ननु 'नानुमानप्राणभृतावतच्छब्दात्' इत्येकमेव सूत्रं किमर्थं न कृतमुभयनिरासहेतोरेकत्वादित्यत आह
पृथगिति ।
योगः सूत्रम् । उत्तरसूत्रस्थहेतूनां जीवमात्रनिरासेनान्वयेऽपि सुबोधार्थं प्राणभृच्चेति पृथक्सूत्रकरणमित्यर्थः ॥ ४ ॥