भूमा । छान्दोग्यमुदाहरति
इदमिति ।
नाल्पे सुखमस्ति भूमैव सुखम् , तस्मान्निरतिशयसुखार्थिना भूमैव विचार्य इति नारदं प्रति सनत्कुमारेणोक्ते सति नारदो ब्रूते
भूमानमिति ।
भूम्नो लक्षणमद्वितीयत्वमाह
यत्रेति ।
भूमलक्षणं परिच्छिन्नलक्षणोक्त्या स्फुटयति
अथेति ।
अत्र संशयबीजं प्रश्नपूर्वकमाह
कुत इत्यादिना ।
बहोर्भाव इति विग्रहे 'पृथ्वादिभ्य इमनिच्' इतीमन्प्रत्यये कृते 'बहोर्लोपो भू च बहोः' इति सूत्रेण बहोः परस्येमनिच्प्रत्ययस्यादेरिकारस्य लोपः स्यात् , बहोः स्थाने भूरित्यादेशश्च स्यादित्युक्तेर्भूमन्निति शब्दो निष्पन्नः । तस्य भावार्थकेमन्प्रत्ययान्तत्वाद्बहुत्वं वाच्यम् । तत्किन्धर्मिकमित्याकाङ्क्षायां संनिहितप्रकरणस्थः प्राणो धर्मो भाति । वाक्योपक्रमस्थ आत्मापि स्वप्रतिपादनापेक्षो धर्मित्वेन भातीति संनिहितव्यवहितप्रकरणाभ्यां संशय इत्यर्थः ।
पूर्वमात्मशब्दात्द्युभ्वाद्यायतनं ब्रह्मेत्युक्तम् , तदयुक्तम् , 'तरति शोकमात्मवित्' इत्यब्रह्मण्यप्यात्मशब्दप्रयोगादित्याक्षेपसङ्गत्या पूर्वपक्ष्यति
प्राणो भूमेति ।
धर्मधर्मिणोरभेदात्सामानाधिकरण्यं दृष्टव्यम् । पूर्वोत्तरपक्षयोः प्राणोपास्तिः ब्रह्मज्ञानं च फलं क्रमेण मन्तव्यम् ।
अत्राध्याये भूयः प्रश्नोत्तरभेदादर्थभेदो दृश्यते । भूमा तु प्राणात्परं भूयःप्रश्नं विनैवोक्तलिङ्गेन प्राणादभिन्न इत्याह
कस्मादित्यादिना ।
प्राणाद्भूय इति न दृश्यत इति पूर्वेण सम्बन्धः ।
ननु 'एष तु वा अतिवदति' इति तुशब्देन प्राणप्रकरणविच्छेदान्न प्राणो भूमेत्यत आह
प्राणमेवेति ।
नामाद्याशान्तानुपास्यानतीत्य प्राणं श्रेष्ठं वदतीत्यतिवादि प्राणविद्तं प्रति अतिवाद्यसीति केनचित्प्रश्ने कृते अस्मीति ब्रूयात् , नाहमतिवादीत्यपह्नवं न कुर्यादित्युक्तम् । प्राणविदमेष इति परामृश्य सत्यवचनध्यानमननश्रद्धादिधर्मपरम्परां विधाय भूमोपदेशान्न प्रकरणविच्छेदः । तुशब्दो नामाद्युपासकस्यातिवादित्वनिरासार्थ इत्यर्थः ।
भूम्नो लक्षणवचनं सुखत्वममृतत्वं च प्राणे प्रश्नपूर्वकं योजयति
कथं पुनरित्यादिना ।
प्राणग्रस्तेषु प्राणे लीनेषु न शृणोति सुषुप्तपुरुष इति शेषः । 'गार्हपत्यो ह वा एषोऽपानो व्यानोऽन्वाहार्यपचन आहवनीयः प्राणः' इति श्रुतेः प्राणा अग्नय इह पुरे शरीरे जाग्रति सव्यापारा एव तिष्ठन्तीत्यर्थः । देवो जीवः । अथ तदा स्वप्नादर्शनकाले सुखश्रवणात्प्राणस्य सुखत्वमविरुद्धमित्यन्वयः ।
आत्मपदेनोपक्रमविरोधं परिहरति
प्राण एवेति ।
प्राणस्यात्मत्वं कथमित्याशङ्क्य श्रुतत्वादित्याह
तथा हीति ।
सर्वं समर्पितमिति च सर्वाधिष्ठानं प्राणं स्वीकरोति श्रुतिरित्यन्वयः । अत आत्मत्वं प्राणेपि मुख्यमिति भावः ।
भूमरूपत्वं योजयति -
सर्वात्मत्वेति ।