ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
भूमा सम्प्रसादादध्युपदेशात् ॥ ८ ॥
इदं समामनन्तिभूमा त्वेव विजिज्ञासितव्य इति भूमानं भगवो विजिज्ञास इति ।’ (छा. उ. ७ । २३ । १)यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति भूमाथ यत्रान्यत्पश्यत्यन्यच्छृणोत्यन्यद्विजानाति तदल्पम्’ (छा. उ. ७ । २४ । १) इत्यादितत्र संशयःकिं प्राणो भूमा स्यात् , आहोस्वित्परमात्मेतिकुतः संशयः ? भूमेति तावद्बहुत्वमभिधीयतेबहोर्लोपो भू बहोः’ (पा. सू. ६ । ४ । १५८) इति भूमशब्दस्य भावप्रत्ययान्ततास्मरणात्किमात्मकं पुनस्तद्बहुत्वमिति विशेषाकाङ्क्षायाम् प्राणो वा आशाया भूयान्’ (छा. उ. ७ । १५ । १) इति सन्निधानात् प्राणो भूमेति प्रतिभातितथा श्रुतं ह्येव मे भगवद्दृशेभ्यस्तरति शोकमात्मविदितिसोऽहं भगवः शोचामि तं मा भगवाञ्शोकस्य पारं तारयतु’ (छा. उ. ७ । १ । ३) इति प्रकरणोत्थानात्परमात्मा भूमेत्यपि प्रतिभातितत्र कस्योपादानं न्याय्यम् , कस्य वा हानमिति भवति संशयःकिं तावत्प्राप्तम् ? प्राणो भूमेतिकस्मात् ? भूयः प्रश्नप्रतिवचनपरम्पराऽदर्शनात्यथा हिअस्ति भगवो नाम्नो भूयःइति, ‘वाग्वाव नाम्नो भूयसीइति; तथाअस्ति भगवो वाचो भूयःइति, ‘मनो वाव वाचो भूयःइति नामादिभ्यो हि प्राणात् भूयः प्रश्नप्रतिवचनप्रवाहः प्रवृत्तः नैवं प्राणात्परं भूयः प्रश्नप्रतिवचनं दृश्यते — ‘अस्ति भगवः प्राणाद्भूयःइति, ‘अदो वाव प्राणाद्भूयःइतिप्राणमेव तु नामादिभ्य आशान्तेभ्यो भूयांसम् — ‘प्राणो वा आशाया भूयान्इत्यादिना सप्रपञ्चमुक्त्वा, प्राणदर्शिनश्चातिवादित्वम्अतिवाद्यसीत्यतिवाद्यस्मीति ब्रूयान्नापह्नुवीतइत्यभ्यनुज्ञाय, ‘एष तु वा अतिवदति यः सत्येनातिवदतिइति प्राणव्रतमतिवादित्वमनुकृष्य, अपरित्यज्यैव प्राणं सत्यादिपरम्परया भूमानमवतारयन्, प्राणमेव भूमानं मन्यत इति गम्यतेकथं पुनः प्राणे भूमनि व्याख्यायमानेयत्र नान्यत्पश्यतिइत्येतद्भूम्नो लक्षणपरं वचनं व्याख्यायेतेति, उच्यतेसुषुप्त्यवस्थायां प्राणग्रस्तेषु करणेषु दर्शनादिव्यवहारनिवृत्तिदर्शनात्सम्भवति प्राणस्यापियत्र नान्यत्पश्यतीतिएतल्लक्षणम्तथा श्रुतिः — ‘ शृणोति पश्यतिइत्यादिना सर्वकरणव्यापारप्रत्यस्तमयरूपां सुषुप्त्यवस्थामुक्त्वा, प्राणाग्नय एवैतस्मिन्पुरे जाग्रति’ (प्र. उ. ४ । ३) इति तस्यामेवावस्थायां पञ्चवृत्तेः प्राणस्य जागरणं ब्रुवती, प्राणप्रधानां सुषुप्त्यवस्थां दर्शयतियच्चैतद्भूम्नः सुखत्वं श्रुतम्यो वै भूमा तत्सुखम्’ (छा. उ. ७ । २३ । १) इति, तदप्यविरुद्धम्अत्रैष देवः स्वप्नान्न पश्यत्यथैतस्मिञ्शरीरे सुखं भवति’ (प्र. उ. ४ । ६) इति सुषुप्त्यवस्थायामेव सुखश्रवणात्यच्च यो वै भूमा तदमृतम्’ (छा. उ. ७ । २४ । १) इति, तदपि प्राणस्याविरुद्धम्प्राणो वा अमृतम्’ (बृ. उ. १ । ६ । ३) इति श्रुतेःकथं पुनः प्राणं भूमानं मन्यमानस्यतरति शोकमात्मवित्इत्यात्मविविदिषया प्रकरणस्योत्थानमुपपद्यते ? प्राण वेहात्मा विवक्षित इति ब्रूमःतथाहिप्राणो पिता प्राणो माता प्राणो भ्राता प्राणः स्वसा प्राण आचार्यः प्राणो ब्राह्मणः’ (छा. उ. ७ । १५ । १) इति प्राणमेव सर्वात्मानं करोति, ‘यथा वा अरा नाभौ समर्पिता एवमस्मिन्प्राणे सर्वं समर्पितम्इति सर्वात्मत्वारनाभिनिदर्शनाभ्यां सम्भवति वैपुल्यात्मिका भूमरूपता प्राणस्यतस्मात्प्राणो भूमेत्येवं प्राप्तम्

भूमा । छान्दोग्यमुदाहरति

इदमिति ।

नाल्पे सुखमस्ति भूमैव सुखम् , तस्मान्निरतिशयसुखार्थिना भूमैव विचार्य इति नारदं प्रति सनत्कुमारेणोक्ते सति नारदो ब्रूते

भूमानमिति ।

भूम्नो लक्षणमद्वितीयत्वमाह

यत्रेति ।

भूमलक्षणं परिच्छिन्नलक्षणोक्त्या स्फुटयति

अथेति ।

अत्र संशयबीजं प्रश्नपूर्वकमाह

कुत इत्यादिना ।

बहोर्भाव इति विग्रहे 'पृथ्वादिभ्य इमनिच्' इतीमन्प्रत्यये कृते 'बहोर्लोपो भू च बहोः' इति सूत्रेण बहोः परस्येमनिच्प्रत्ययस्यादेरिकारस्य लोपः स्यात् , बहोः स्थाने भूरित्यादेशश्च स्यादित्युक्तेर्भूमन्निति शब्दो निष्पन्नः । तस्य भावार्थकेमन्प्रत्ययान्तत्वाद्बहुत्वं वाच्यम् । तत्किन्धर्मिकमित्याकाङ्क्षायां संनिहितप्रकरणस्थः प्राणो धर्मो भाति । वाक्योपक्रमस्थ आत्मापि स्वप्रतिपादनापेक्षो धर्मित्वेन भातीति संनिहितव्यवहितप्रकरणाभ्यां संशय इत्यर्थः ।

पूर्वमात्मशब्दात्द्युभ्वाद्यायतनं ब्रह्मेत्युक्तम् , तदयुक्तम् , 'तरति शोकमात्मवित्' इत्यब्रह्मण्यप्यात्मशब्दप्रयोगादित्याक्षेपसङ्गत्या पूर्वपक्ष्यति

प्राणो भूमेति ।

धर्मधर्मिणोरभेदात्सामानाधिकरण्यं दृष्टव्यम् । पूर्वोत्तरपक्षयोः प्राणोपास्तिः ब्रह्मज्ञानं च फलं क्रमेण मन्तव्यम् ।

अत्राध्याये भूयः प्रश्नोत्तरभेदादर्थभेदो दृश्यते । भूमा तु प्राणात्परं भूयःप्रश्नं विनैवोक्तलिङ्गेन प्राणादभिन्न इत्याह

कस्मादित्यादिना ।

प्राणाद्भूय इति न दृश्यत इति पूर्वेण सम्बन्धः ।

ननु 'एष तु वा अतिवदति' इति तुशब्देन प्राणप्रकरणविच्छेदान्न प्राणो भूमेत्यत आह

प्राणमेवेति ।

नामाद्याशान्तानुपास्यानतीत्य प्राणं श्रेष्ठं वदतीत्यतिवादि प्राणविद्तं प्रति अतिवाद्यसीति केनचित्प्रश्ने कृते अस्मीति ब्रूयात् , नाहमतिवादीत्यपह्नवं न कुर्यादित्युक्तम् । प्राणविदमेष इति परामृश्य सत्यवचनध्यानमननश्रद्धादिधर्मपरम्परां विधाय भूमोपदेशान्न प्रकरणविच्छेदः । तुशब्दो नामाद्युपासकस्यातिवादित्वनिरासार्थ इत्यर्थः ।

भूम्नो लक्षणवचनं सुखत्वममृतत्वं च प्राणे प्रश्नपूर्वकं योजयति

कथं पुनरित्यादिना ।

प्राणग्रस्तेषु प्राणे लीनेषु न शृणोति सुषुप्तपुरुष इति शेषः । 'गार्हपत्यो ह वा एषोऽपानो व्यानोऽन्वाहार्यपचन आहवनीयः प्राणः' इति श्रुतेः प्राणा अग्नय इह पुरे शरीरे जाग्रति सव्यापारा एव तिष्ठन्तीत्यर्थः । देवो जीवः । अथ तदा स्वप्नादर्शनकाले सुखश्रवणात्प्राणस्य सुखत्वमविरुद्धमित्यन्वयः ।

आत्मपदेनोपक्रमविरोधं परिहरति

प्राण एवेति ।

प्राणस्यात्मत्वं कथमित्याशङ्क्य श्रुतत्वादित्याह

तथा हीति ।

सर्वं समर्पितमिति च सर्वाधिष्ठानं प्राणं स्वीकरोति श्रुतिरित्यन्वयः । अत आत्मत्वं प्राणेपि मुख्यमिति भावः ।

भूमरूपत्वं योजयति -

सर्वात्मत्वेति ।