ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
स्थित्यदनाभ्यां च ॥ ७ ॥
द्युभ्वाद्यायतनं प्रकृत्य, द्वा सुपर्णा सयुजा सखाया’ (मु. उ. ३ । १ । १) इत्यत्र स्थित्यदने निर्दिश्येते । ‘तयोरन्यः पिप्पलं स्वाद्वत्तिइति कर्मफलाशनम् । ‘अनश्नन्नन्योऽभिचाकशीतिइत्यौदासीन्येनावस्थानम्ताभ्यां स्थित्यदनाभ्यामीश्वरक्षेत्रज्ञौ तत्र गृह्येतेयदि ईश्वरो द्युभ्वाद्यायतनत्वेन विवक्षितः, ततस्तस्य प्रकृतस्येश्वरस्य क्षेत्रज्ञात्पृथग्वचनमवकल्पतेअन्यथा ह्यप्रकृतवचनमाकस्मिकमसम्बद्धं स्यात्ननु तवापि क्षेत्रज्ञस्येश्वरात्पृथग्वचनमाकस्मिकमेव प्रसज्येत, तस्याविवक्षितत्वात्क्षेत्रज्ञो हि कर्तृत्वेन भोक्तृत्वेन प्रतिशरीरं बुद्ध्याद्युपाधिसम्बद्धः, लोकत एव प्रसिद्धः, नासौ श्रुत्या तात्पर्येण विवक्ष्यतेईश्वरस्तु लोकतोऽप्रसिद्धत्वाच्छ्रुत्या तात्पर्येण विवक्ष्यत इति तस्याकस्मिकं वचनं युक्तम् । ‘गुहां प्रविष्टावात्मानौ हिइत्यत्राप्येतद्दर्शितम् — ‘द्वा सुपर्णाइत्यस्यामृचि ईश्वरक्षेत्रज्ञावुच्येते इतियदापि पैङ्ग्युपनिषत्कृतेन व्याख्यानेनास्यामृचि सत्त्वक्षेत्रज्ञावुच्येते, तदापि विरोधः कश्चित्कथम् ? प्राणभृद्धीह घटादिच्छिद्रवत् सत्त्वाद्युपाध्यभिमानित्वेन प्रतिशरीरं गृह्यमाणो द्युभ्वाद्यायतनं भवतीति निषिध्यतेयस्तु सर्वशरीरेषूपाधिभिर्विनोपलक्ष्यते, पर एव भवतियथा घटादिच्छिद्राणि घटादिभिरुपाधिभिर्विनोपलक्ष्यमाणानि महाकाश एव भवन्ति, तद्वत् प्राणभृतः परस्मादन्यत्वानुपपत्तेः प्रतिषेधो नोपपद्यतेतस्मात्सत्त्वाद्युपाध्यभिमानिन एव द्युभ्वाद्यायतनत्वप्रतिषेधःतस्मात्परमेव ब्रह्म द्युभ्वाद्यायतनम्तदेतत्अदृश्यत्वादिगुणको धर्मोक्तेःइत्यनेनैव सिद्धम्तस्यैव हि भूतयोनिवाक्यस्य मध्ये इदं पठितम् — ‘यस्मिन्द्यौः पृथिवी चान्तरिक्षम्इतिप्रपञ्चार्थं तु पुनरुपन्यस्तम् ॥ ७ ॥

ननु स्थित्येश्वरस्यादनाजीवस्य 'द्वा सुपर्णा' इत्यत्रोक्तावपि ईश्वर आयतनवाक्येन किमर्थं ग्राह्य इत्यत आह

यदि चेश्वर इति ।

अत्र चेश्वरः शुद्धचिन्मात्रो ग्राह्यः, न सर्वज्ञत्वादिविशिष्टः, तस्यात्राप्रतिपाद्यत्वात् । तथा चाप्रतिपाद्यार्थस्याकस्मान्मध्ये वचनासम्भवादाद्यवाक्येन ग्रहणं कार्यमित्यभिसन्धिः ।

तमज्ञात्वा शङ्कते

ननु तवापीति ।

ब्रह्मस्वरूपप्रतिपादनार्थमकस्मादप्रकृतस्यापि लोकप्रसिद्धस्य जीवस्यानुवादसम्भव इति परिहरति

नेति ।

ननु 'द्वा सुपर्णा' इत्यत्र बुद्धिजीवयोरुक्तेः कथमिदं सूत्रमित्यत आह

गुहामिति ।

स्थित्यदनाभ्यामीश्वरक्षेत्रज्ञयोरनुवादेनैक्यं दर्शितमित्यर्थः ।

नन्वत्र जीवेशौ नानुवाद्यौ, पैङ्गिव्याख्याविरोधादतः सूत्रासङ्गतिरित्यत आह

यदापीति ।

तदापि सूत्रस्यासङ्गतिर्नास्तीत्यर्थः ।

अदनवाक्येन बुद्धिमनूद्य स्थितिवाक्येन बुद्ध्यादिविलक्षणशुद्धप्रत्यग्ब्रह्मणो ज्ञेयस्योक्तेर्द्युभ्वादिवाक्ये तदेव ग्राह्यम् , न बुद्ध्युपहितो जीव इति सूत्रसङ्गतिमाह

कथमित्यादिना ।

नन्वत्रानुपहितो जीव उक्तो न परं ब्रह्मेत्यत आह

यस्त्विति ।

पौनरुक्त्यं शङ्कते

तदेतदिति ।

द्युभ्वादिवाक्यस्य ब्रह्मपरत्वमित्यर्थः ।

समाधत्ते

प्रपञ्चार्थमिति ।

सेतुशब्दव्याख्यानेन भूतयोनेः प्रत्यगात्मत्वस्फुटीकरणार्थमित्यर्थः । तस्मान्मुण्डकोपनिषद्ब्रह्मणि समन्वितेति सिद्धम् ॥ ७ ॥