सम्प्रसादशब्देन प्राणं लक्षयितुं मुख्यार्थं दर्शयति
सम्प्रसाद इति ।
स वा एष एतस्मिन्सम्प्रसादे स्थित्वा पुनराद्रवतीति प्रयोगाच्च ।
तत्पदं सुषुप्तिवाचकमित्याह
बृहदिति ।
वाच्यार्थसम्बन्धात्प्राणो लक्ष्य इत्याह
तस्यां चेति ।
अत्र सूत्र इत्यर्थः । भूमा प्राणाद्भिन्नोऽत्राध्याये, तस्मादूर्ध्वमुपदिष्टत्वात् , नामादेरूर्ध्वमुपदिष्टवागादिवदित्यर्थः ।
विपक्षहेतूच्छेदं बाधकमाह
प्राण एव चेदिति ।
स्वस्यैव स्वस्मादूर्ध्वमुपदिष्टत्वमयुक्तम् , नामादिष्वदृष्टं चेत्यर्थः ।
हेत्वसिद्धिं शङ्कते
नन्विहेति ।
प्रकृतप्राणवित्परामर्शक एषशब्दो न भवति, तस्य यच्छब्दपरतन्त्रत्वेन सत्यवादिवाचित्वात् । अतः प्राणप्रकरणं विच्छिन्नमिति हेतुसिद्विरित्याह
अत्रोच्यत इति ।
सत्येनातिवादित्वं विशेषः, तद्वतो य एष इत्युक्तेर्न पूर्वानुकर्ष इत्यर्थः ।
य एष प्राणविदतिवदतीत्यनूद्य स सत्यं वदेदिति विधानान्न प्राणप्रकरणविच्छेद इति दृष्टान्तेन शङ्कते
नन्विति ।
सत्यशब्दो ह्यबाधिते रूढो ब्रह्मवाचकः, तदन्यस्य मिथ्यात्वात् । सत्यवचने त्वबाधितार्थसम्बन्धाल्लाक्षणिक इति नात्र लक्ष्यवचनविधिरित्याह
नेति ब्रूम इति ।
किञ्च सत्येन ब्रह्मणातिवदतीति तृतीयाश्रुत्या ब्रह्मकरणकमतिवादित्वं श्रुतम् , तस्य प्रकरणाद्बाधो न युक्त इत्याह
श्रुत्या हीत्यादिना ।
अत्रेति ।
सत्यवाक्य इत्यर्थः ।
एवं सत्येनेति श्रुत्या प्रकरणं बाध्यमित्युक्त्वा तुशब्देनापि बाध्यमाह
प्रकृतेति ।
विजिज्ञास्यत्वलिङ्गाच्च पूर्वोक्ताद्भिन्नमित्याह
सत्यं त्वेवेति ।
प्रकरणविच्छेदे दृष्टान्तमाह
तस्मादिति ।
श्रुतिलिङ्गबलादेतत्सत्यं प्रकृतात्प्राणात्प्राधान्येन भिन्नं द्रष्टव्यमित्यर्थः ।
एवमतिवादित्वस्य ब्रह्मसम्बन्धोक्त्या प्राणलिङ्गत्वं निरस्तम् । यत्तु प्रश्नं विनोक्तत्वलिङ्गाद्भूमा प्राण इति, तन्न, तस्याप्रयोजकत्वादित्याह
न चेति ।
प्रश्नभेदादर्थभेद इति न नियमः, एकस्यात्मनो मैत्रेय्या बहुशः पृष्टत्वात् । प्रश्नं विनोक्तचातुर्वेदस्य प्रकृतैकवेदाद्भिन्नत्वदर्शनाच्चेत्यर्थः ।
तत्र यथा चतुर्वेदत्वस्य प्रकृतासम्बन्धादर्थभेदः, एवमिहापीति स्फुटयति
तत्रेत्यदिना ।
सत्यपदेन प्राणोक्तिरित्यत आह
तत्र सत्यमिति ।
विज्ञानं निदिध्यासनम् । आदिपदान्मननश्रद्धाश्रवणमनःशुद्धिनिष्टातद्धेतुकर्माणि गृह्यन्ते । इमान्यपि श्रवणादीनि ज्ञेयस्य सत्यस्य ब्रह्मत्वे लिङ्गानि । एवं श्रुतिलिङ्गैः प्राणस्यावान्तरप्रकरणं बाधित्वा प्रस्तुतं सत्यं ब्रह्म भूमपदोक्तबहुत्वधर्मीत्याह
तत्र यदिति ।
किञ्च 'संनिहितादपि व्यवहितं साकाङ्क्षं बलीयः' इति न्यायेन संनिहितं निराकाङ्क्षं प्राणं दृष्ट्वा वाक्योपक्रमस्थ आत्मा स्वप्रतिपादनाय भूमवाक्यापेक्ष इह भूमा ग्राह्य इत्याह
एवं चेति ।
किञ्च शोकस्य पारमित्युपक्रम्य तमसः पारमित्युपसंहारात् , शोकस्य मूलोच्छेदं विना तरणायोगाच्च, शोकपदेन मूलतमो गृह्यते । तन्निवर्तकज्ञानगम्यत्वलिङ्गादात्मा ब्रह्मेत्याह
न चान्यत्रेति ।
ब्राह्मणमात्मायत्तत्वं प्राणस्य वदतीति सम्बन्धः ।
नन्विदं चरमं ब्राह्मणं ब्रह्मपरमस्तु, ततः प्रागुक्तो भूमा प्राण इति शङ्कते
प्रकरणान्त इति ।
तच्छब्देन भूमानुकर्षान्मैवमित्याह
नेति ॥ ८ ॥